रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः - अंतिम भाग रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
  • आखेट महल - 19

    उन्नीस   यह सूचना मिलते ही सारे शहर में हर्ष की लहर दौड़...

  • अपराध ही अपराध - भाग 22

    अध्याय 22   “क्या बोल रहे हैं?” “जिसक...

  • अनोखा विवाह - 10

    सुहानी - हम अभी आते हैं,,,,,,,, सुहानी को वाशरुम में आधा घंट...

  • मंजिले - भाग 13

     -------------- एक कहानी " मंज़िले " पुस्तक की सब से श्रेष्ठ...

  • I Hate Love - 6

    फ्लैशबैक अंतअपनी सोच से बाहर आती हुई जानवी,,, अपने चेहरे पर...

श्रेणी
शेयर करे

रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः - अंतिम भाग

रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 19

वृद्धावस्थाम् प्राप्त्यनन्तरं ज्ञानिजनाः विचारं कुर्वन्ति यत् ते मृत्योः सन्निकटे सन्ति । अनेन ते दुःखिताः न भवन्ति । अन्ततः जर्जरशरीरात् मुक्तेः अन्तिमोपायः मृत्युः एव अस्ति इत्येतत् चिरसत्यं ज्ञात्वा ते खिन्नाः अपि नहि भवन्ति प्रत्युत अनेन तेषाम् उत्साहवर्धनमेव भवति।

मृत्युविषये चिन्तनक्रमः रत्नामातुः बहुदिनेभ्यः पूर्वतः समारब्धः जातः आसीत्। मृत्युविषये तस्याः मानसिकी सिद्धता पूर्णतामेव गता । सा दिनानुदिनं शक्तिहीनतामेव अनुगच्छति स्म । समयेन अपि सर्वेषाम् एव पात्राणां वयसि परिवर्तनम् आनीतम् आसीत् । हरकोमहोदयायाः शरीरं अपि जर्जरं जातम् । गणपतिः षष्टि - पंचषष्टि - वर्षीयः जातः । स्वस्य बुद्धिमत्तया परिसरे प्रभावशाली पुरुषः इति सर्वमान्यः जातः आसीत् । गोस्वामिवर्यैः स्थापितः हनुमतः अर्चकः स्वर्गं गतः । तस्य अर्चकस्य पुत्रः नैव आसीत् । अतः अर्चकस्य कार्यं गणपतिः एव निर्वहति स्म । रामाबन्धुः अपि ग्रामे बहुप्रतिष्ठितः आसीत् । हरकोमहोदया रत्नामातुः संगतौ सततं स्थिता अवर्तत । अतः तया सह वाद - प्रतिवादकर्तुं महान्तः महान्तः पण्डिताः अपि परिभ्रान्ताः भूत्वा तिष्ठन्ति स्म। रत्नावल्याः बन्धुः गंगेश्वरस्य पाण्डित्यं चरमसीमानं प्राप्तम् जातम् । सः स्वव्यवसाये एतादृशः व्यग्रः जातः आसीत् यत् भगिन्याः कुशलक्षेमं ज्ञातुम् अपि अवकाशः न भवति स्म ।

रत्नावल्याः दैनिकजीवनस्य नित्यक्रमः सुदीर्घकालात् आरभ्य तथैव पूर्ववत् प्राचलत् । मानसस्य पाठः तथा च जपमालाद्वारा जपजापनमेव प्रमुखः कार्यकलापः जातः आसीत् । प्रतिदिनं यदा जनाः आगच्छन्ति स्म तदा रामचरितमानसविषये चर्चा चलति स्म । सर्वां भोजनव्यवस्थां परिसरीयाः जनाः अनुतिष्ठन्ति स्म । साधु - सतां कृते सिद्धान्नस्य भोजनव्यवस्था आसीदेव । जनाः समयस्य सदुपयोगाय रत्नामातुः समीपं सत्सङ्गार्थम् उपवेष्टुम् आगच्छन्ति स्म।

रत्नामातुः स्वास्थ्यं दिनानुदिनं समीचीनं न भवति स्म । अशक्ततया सा ज्वरेण ग्रस्ता जाता, तस्याः कृते रामाबन्धुः किमपि किंचन औषधं ददाति स्म । औषधानि वृद्धावस्थायाम् अनुकूलं परिणामं दातुं न शक्नुवन्ति । जनाः वदन्ति यत् एतद् औषधम् कथम् अस्ति ? रोगस्य निवारणम् एव न करोति । एक - एकं कृत्वा औषधानां प्रभावं निरीक्षणं च समारभ्येते।

एकस्मिन् दिने एतेभ्यः सर्वेभ्यः औषधेभ्यः निराशः भूत्वा रामाबन्धुः अवदत् - भ्रातृजाये, यदि ज्वरः न्यूनः न भवेत् तदा भवतीं काशीं नयामि । तत्र स्वयं गोस्वामिवर्याः अपि भविष्यन्ति, भवतीं कस्मै अपि महावैद्याय दर्शयिष्यामि ।’’

रत्नावली सपद्येव स्वनिर्णयम् उक्तवती - ‘‘अधुना तत्र किमर्थं गच्छामि ? किं मृत्युं न गमिष्यामि ? किं नहि मरणम् ? अधुना श्रीरामः मां युगपदेव आह्वयतु इत्येव इच्छा अस्ति । तेषां हस्ताभ्यां चिताकाष्ठानि रचितानि स्थापितानि च भवन्तु । तथैवास्तु, तदा एव जीवनं सफलं जातम् इति मन्ये अहम् । उक्तमपि - ‘‘यस्य अन्तं भद्रं तस्य सर्वमपि भद्रकरम् ।’’

रामाबन्धुः अवदत् -‘‘जीवनं ननु तथैव सफलं जातम् अस्ति । अरे भ्रातृजाये, यस्य उपरि श्रीरामस्य कृपा भवति तस्य जीवनस्य सफलताविषये सन्देहः उचितः नास्ति । सर्वेऽपि भवत्याः भाग्यस्य प्रशंसामेव कुर्वन्ति ।’’

श्रुत्वा सा अवदत् - ‘‘रामस्य विश्वासः दृढः अस्ति नूनम् । सः एव अन्तिमसमये तेषां दर्शनं मां कारयितुं शक्नोति ।’’

रामाबन्धुः तस्यै साहसं ददानः अभणत् - ‘‘भ्रातृजाये, भवती चिन्तां मा करोतु । सर्वम्पूर्णं जीवनं रामस्य विश्वासे अधिष्ठितं जातं विद्यते । निश्चयेन श्रीरामः भवत्याः अन्तिमाम् इच्छाम् निश्चयेन एव पूर्णां करिष्यति ।’’

हरकोमहोदया कासमाना गृहस्य अन्तर्भागतः वलीके समागता आसीत्, तया च रामाबन्धोः कथनं श्रुतमासीत् उक्तं च - ‘‘अधुना नूनं भ्रातृजायायाः तपस्यया एव गुरुवर्याणां दर्शनं वयं प्राप्तुं शक्नुमः ।’’

रामाबन्धुः विश्वासं थपथपायनं कृतवान्, अवदत् च - ‘‘हरकोमहोदये ! विश्वासः एव फलदायी भवति । पश्यतु, भ्रातृजायायाः अन्तिमसमये गुरुवर्याः अत्र आगत्य कथम् अवतरन्ति’’ इति ।

एतत् श्रुत्वा हरकोमहोदया रामाबन्धवे परामर्शम् अददात् - ‘‘भ्रातः ! तथा न स्यात्, तदा भवान् एव काशीं पुनरपि गत्वा अत्रागच्छतु । भ्रातृजायायाः स्थितिं गुरुवर्येभ्यः निवेदयतु । परन्तु भवान् अपि तथा चलितुं न समर्थः । चलनसमये यष्ट्याः आधारं गृह्णाति भवान् ।’’

रामाबन्धुः साहसेन अवदत् - ‘‘हरकोमहोदये, अहं तु गमिष्यामि, किन्तु तथा ज्ञानमपि नास्ति यत् ते महाराजाः अधुना काश्यां सन्ति वा न वा ? बहूनि दिनानि व्यतीतानि तथापि मम गमनागमनं काश्यां न अभवत्, न कापि सूचना आगता ।’’

रत्नावली आत्मविश्वासेन अभ्यदधात् - ‘‘गमनस्य आवश्यकता एव नास्ति । ते स्वयमेव आगमिष्यन्ति । नूनं तैः अत्रागमनस्य आश्वासनं मह्यं दत्तम् अस्ति ।

रामाबन्धुना तस्याः आत्मविश्वासः पुनरपि अभिवर्द्धितः - ‘‘भवती चिन्तां मा कुरु । भवती नूनं श्रीरामस्य भक्तिं करोति । सः घटे घटे वासं करोति । तस्य कृते कुत्रापि किमपि कठिनं न भवति ।’’

कश्चन कालः पुनरपि विनिर्गतः । वर्षाकालः आगतः । परिसरे सर्वत्र वार्ता प्रसृता - रत्नामाता अतीव अस्वस्था जाता । परिसरीयाः सर्वे स्त्रीपुरुषाः तस्याः दर्शनार्थम् आगच्छन्ति स्म । केचन जनाः नाडिपरीक्षणं कृत्वा अनुमानं कर्तुं प्रयत्नपराः भवन्ति स्म । ज्वरः वेगेन तीव्रः जातः आसीत् ।

तीव्रज्वरेण सा किमपि कथमपि जल्पनं करोति स्म - ‘‘हे राम, भवान् अधुनैव तान् आह्वयतु ननु । किं भ्रातः ! भवान् पश्यतु तान्, ते आगताः वा न वा ? ते कथम् आगच्छन्ति ? तेषां ध्याने एव किमपि स्थितं न स्यात् ? पश्यन्तु भवन्तः, भवद्भि: अत्रागमनस्य आश्वासनं मह्यं दत्तम् अस्ति । यदि तस्य आश्वासनस्य पूर्तिः न भविष्यति तदा सर्वेऽपि चिन्तयिष्यन्ते यत् असत्याः भवन्तः, भवतां रामः अपि असत्यः ।

यः कोऽपि एतत् शृणोति स्म सः कथयति - ‘‘मातः अलं चिन्तया, गोस्वामिवर्याः आगच्छन्तः एव स्युः ।’’

सर्वेऽपि जानन्ति स्म यत् रत्नामातुः प्राणाः गोस्वामिवर्याणां दर्शनाय एव अवशिष्टाः सन्ति।

अधुना तस्याः नाडिः अतीवमन्दतां गता अस्ति । जनैः भूमिः लिम्पिता । कुशासनं विस्तीर्णं कृतम् अभवत्। कुशासनास्तरणे सा शाययिता । तुलसीदलं मुखे स्थापितं गंगाजलं च पाययितम् । प्रायः सा मूर्छिता जाता आसीत् इति अनुमन्यते स्म । अधुना जनाः आशंकिताः यत् मातुः श्वासः कस्मिन्नपि क्षणे अवरुद्वः भवितुम् अर्हति।

रत्नामाता अपि अवगतवती यत् अधुना प्रस्थानस्य पूर्णतया पूर्वसिद्धता जाता अस्ति । तस्याः अर्धचेतनायां जीवनस्य कतिपयानि दृश्यानि स्मृतिपथि आगच्छन्ति -

एतदेव गृहम् । सर्वं किंचिदपि अत्रैव । तैः सह मेलनस्य प्रथमा रात्रिः । मम हृदयं कम्पमानं जातम् । पुष्पशय्या समलंकृता वर्तते । भवन्तः अपि सम्यक्तया समलंङ्कृतः भूत्वा गृहे आगच्छन्ति । भवतां पादाहतैः एव अहं सर्वम् अपि अवगच्छामि । पारदर्शि - अवगुष्ठन माध्यमेन परस्परम् नेत्राणां मेलनं भवति । तेषाम् मदयुक्ते नेत्रे। कोऽपि खुमारिः माम् छलयति । भवन्तः मम अवगुण्ठनं दूरीकुर्वन्ति । भवन्तः स्वस्य प्रशमने व्याकुलाः भवन्ति । मया भवतां समर्पणं स्वीकरणीयं भवति । प्रत्यर्पणभावेन अहमपि समर्पिता भवामि ।

यदा यदा पुरुषः प्रकृतिः च एकाकारे आगच्छतः तदा सृष्टिनिर्मितिः प्रारब्धा भवति । निमेलनेन यः आत्मसन्तोषः भवति सः अवर्णनीयः भवति । किं कथ्यमानाः जाताः आसन् भवन्तः - ‘‘रत्ने, भवतीम् अधिगत्य मम जीवनमेव धन्यतां गतम् अस्ति । भवत्याः सौन्दर्यं मम चित्रं समाविष्टं जातम् अस्ति । यावज्जीवनं तस्य पूजनं कुर्वन् भविष्यामि ।’’

‘‘स्वामिचरणाः, मया श्रुतम् अस्ति यत् भवान् कविः विद्यते । कविः सुन्दरतायाः उपासकः वर्तते । सः भावुकोऽपि भवति । एतादृशानां जनानां भ्रमः यदा भंगः भवति तदा तादृशाः जनाः अधिकाः कठोराः अपि भूत्वा उत्तिष्ठन्ति । स्वामिचरणाः, कदापि तथा कठोराः मा भवन्तु भवन्तः।’’

‘‘रत्ने, कथं भवती एवं वदति ? नारी पुरुषः चेति जीवनरूपिरथस्य द्वे चक्रे स्तः । द्वयोः अपि गतिः समाना भवितुम् अर्हति, तथैव चलनीयं भवति । अन्यथा रथः विकृतां गतिं धारयति । विकृतः भूत्वा एव तिष्ठति पतति च । मया नारीभ्यः समाना श्रेणी दीयते ।’’

मया कथितम् - ‘‘दास्यै इयत् महत् उत्तरदायित्वं न देयम् ।’’

एतदाकर्ण्य ते प्रतिपादनं कृतवन्तः - ‘‘रत्ने, यदा अहं पथच्युतः भवामि तदा निःसंकोचतया कर्तव्यबोधः भवत्या मह्यं देयः, तदर्थं च प्रेरितः अपि करणीयः । नारी नाम पुरुषस्य परिभ्रामकतायाः नियन्त्रणकत्र्री शक्तिः एव वर्तते । यत्र सा पुरुषत्वे नियन्त्रणं कर्तुं शक्नोति तत्रैव सा कर्तव्यबोधम् अपि कर्तुं शक्नोति ।

एतादृशं प्रतिपादनं श्रुत्वा अहं दीर्घकालं यावत् विचारं कुर्वती अतिष्ठम् । एतस्मिन् समये एव काचित् चेतना आगता । अक्षिणी उन्मीलिते । कक्षः परिपूर्णः जातः आसीत् जन सम्मर्देन ।

उन्मीलिते अक्षिणी दृष्ट्वा केचित् तेषां समक्षमेव अवदन् - ‘‘अरे एवमेव, अधुना अपि मातुः किमपि भवितुं न अर्हति, नूनमेव सुष्ठु अस्ति ।’’

तया ज्ञातम् - ‘‘जनाः तस्यै सान्त्वनादानार्थम् एवं कथयन्ति । किम् अहं मृत्योः बिभेमि ? मृत्युः नाम चिरनिद्रा अस्ति । चिरसत्यं वर्तते, जगतः मर्यादानां मूलं विद्यते । मृत्योः आनन्दं गृहीत्वा ननु पश्यन्तु । न जाने, जनाः मृत्योः किमर्थं बिभ्यति ?’’ ततः पुनः सा अर्धचेतनया परिवृता जाता ।

‘‘भवद्भि: मेलनेन एव यः कर्तव्यबोधः करणीयः इति विषये अहं प्रेरिता कृता आसम् तस्मिन् दिने सः एव कर्तव्यबोधः मया कृतः इत्येव मम मनीषां तथापि भवद्भि: तत् अशुभकरमेव सम्मतम् । कर्तव्यबोधकारणस्य एव अयं दण्डः मया प्राप्तः । येन अहमद्य मरणं प्रति गच्छामि, भवन्तः समीपे अपि न सन्ति ।’’ एतस्य कथनस्य आगमनानन्तरं एव सा पुनरपि चेतनायाम् आगता ।

एतस्मिन्नेव समये तस्याः श्रवणे आगच्छत् - ‘‘स्वामिवर्याः आगताः, स्वामिवर्याः आगताः।’’

तदा तस्याः अक्षिणी तान् द्रष्टुं पर्यटती अभवताम् । तया अमन्यत - ‘‘अधुनैव मम प्राणाः निर्गताः भवन्तु। तैः यद् आश्वासनं मह्यं दत्तम् आसीत् तद् आश्वासनं तैः पूर्णं कृतम् । तैः कथं ज्ञातं यत् अहमत्र म्रियमाणा अस्मि इति । एषा सर्वा श्रीरामस्य एव कृपा वर्तते । हन्त हन्त, यदि अहं मरणम् अगमिष्यं तदा एवमेव विचारः अभविष्यत्। अधुना जन्म - मरण - चक्रेभ्यः मुक्तिः मया प्राप्स्यते । हे श्रीराम, पुनरपि यदा अहं जन्म प्राप्नुयाम् तदा एते एव पुनः मम पतिरूपेण प्राप्ताः भवन्तु .. एते एव प्राप्ताः भवन्तु ।’’

सा एवम् अनुभूतवती यत् कोऽपि तस्याः सन्निकटे उपविष्टः अस्ति । चिरपरिचितः सः स्पर्शः अस्ति इति तया अवगतम् । अक्षिणी उन्मीलिते अभवताम् । स्वामिचरणाः अक्ष्णोः पुरतः आसन् । एतद् दृष्ट्वा प्रेमाश्रूणि प्रवहमाणानि अभवन् । कक्षे शान्तिः प्रसृता । सर्वेऽपि वलीकतः निर्गत्य, बहिः आगताः । तस्याः मस्तके गोस्वामिवर्याः हस्तम् आवर्तयन्ति ।

अकथयन् च - ‘‘रत्ने, सीताराम, वदतु, सीताराम ।’’

रत्नावल्याः मुखात् निःसृतम् - ‘‘सी......ता......रा......मः ।’’ तदनन्तरं धुकधुकायनं समाप्तम् । अक्षिणी उन्मीलिते आस्ताम् । सुदीर्घं कालं यावत् तुलसीदासमहोदयाः पत्न्याः पाश्र्वे एव उपाविशन् । किमपि चिन्तयन्तः स्थिताः । तैः तस्याः मुखमुद्रायां स्थितानि अश्रूणि परिमार्जितानि । तदा ते अमन्यन्त - तस्याः दुःखानि एव परिमार्जितानि कृतानि । अक्षिणी निमीलिते कृते तैः । अवगुण्ठनेन शरीरम् आवृतम् । उत्थिताः ।

एकं क्षणं यावत् तत्र तिष्ठन्तः किमपि चिन्तनम् अकुर्वन् - ‘‘श्रीराम..........श्रीराम’’ इति कथयन्तः वलीकतः प्रस्थाय बहिः निर्गताः । ।। इति शम् ।।