रत्नावली-2-संस्कृतानुवादकः पं.गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-2-संस्कृतानुवादकः पं.गुलामदस्तगीरः

रत्नावली

लेखकः

डा. रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 2

अद्यावधिः कति दिवसाः व्यतीताः स्वामिचरणानां निर्गमनान्ते ? तैः मम विषये तु नहि, मुन्ना इति स्वात्मजस्य अपि चिन्ता न कृता । एतादृशः निर्मोही कोऽपि भवति वा ? ते चिन्तयिष्यन्ति अहं तेषां सानिध्ये नास्मि, ततः किं चिन्तनम् ? मुन्ना इति आत्मजः तु अस्ति एव। नारी एका एतादृशी लता अस्ति या वृक्षाधारेण एव आरोहणं करोति, अन्यथा पृथिव्याः उपरि एव लुण्ठनं करोति । वयं नार्यः अनेन प्रकारेण निर्बलाः भूत्वा स्थातुं न शक्नुमः। नारीणां बाल्यकाले, मातृपित्रोः आलम्बः, युवावस्थायां पत्युः आश्रयः, वृद्धावस्थायां च पुत्रस्य आधारः, अनेनैव प्रकारेण जीवनयापनं चलति । मुन्नाइति आत्मजः अस्ति इति विचारेण स्वामिचरणाः निश्चिन्ताः जाताः स्युः । ‘‘तेषां विषये मया कियत् चिन्तनं क्रियते, एतादृशस्य चिन्तनस्य प्रक्रियायाः आधारेण प्रतिक्षणं ते मम सन्निधौ एव तिष्ठन्ति । पितृचरणैः तेषाम् कियत् अन्चेषणं कारितं, तथापि कुत्रचिदपि तेषां दर्शनलाभः न अभवत् ।

एवं चिन्तामग्ना भूत्वा रत्नावली द्वारम् आगत्य अतिष्ठत् । तया आकाशः निरीक्षितः, अधुना समापनमार्गम् अवलम्बितवती रात्रिः । अद्य नु आकाशे तारकाः प्रकाशमानाः सन्ति । तस्यां रात्रौ घनान्धकारः आसीत् । तारकाणां प्रकाशे तस्याः नेत्रे तान् अन्वेष्टुं दूरातिदूरं गच्छतः स्म । तस्याः ओष्ठौ किमपि कथयितुं प्रचलन्तौ सिद्धौ । अस्मिन् काले गृहे सर्वे जनाः सुप्ताः सन्ति । एतादृशे समये तया केन सह किं सम्भाषणं करणीयम् ? एवं विचारं कृत्वा तस्याः मनः किमपि गुंजनं कर्तुम् उद्युक्तम् -

नूनं मदोच्छृङ्खलनद इव,

तव मनः त्वतृप्तं त्वाश्चर्यम् ।

नूनं तु वासनां प्रति धिक् धिक्,

ननु यः मदः हि स्रवति च सरति ।।

प्रवहति अजस्रशब्दावली,

यस्यां रामः विराजते ।

हे श्रेष्ठ मुनीनां वंशज !

चंचलतावद् कस्मात्त्वियम् ।

कामस्तु गतः निर्गतः स्वयम्,

आगता सहजजगतः विरक्तिः ।।

दृष्ट्वा दृश्यं तु इदं नूनम्,

लज्जया चिन्तया सा ह्यभवत् ।

हा ! किं नु कृतं महदाश्चर्यम्,

अहमेव हि त्वपराधिनी नु अत्र ।।

(तेषां व्यवहारः महापूरयुक्त - नदीसदृशः भवति स्म, मनसि च सांसारिकव्यवहारविषये आलोडनं विलोडनं च प्रचलति स्म । भवतां विषयवासनायाः धिगस्तु धिक्कारः च भवतु, मदोन्मत्तां माम् गृहीत्वा भवन्तः समागतवन्तः । श्रीरामभक्त्यर्थं भवताम् एतादृशी व्याकुलता किमर्थं न भवति ? इति प्रस्खलन्तः शब्दाः निःसृताः मम मुखात् । पुनश्च भवन्तः श्रेष्ठ - ऋषि - मुनीनां सन्ततिः भूत्वा अपि अस्थि - मांस - निर्मित - शरीरार्थं समाकृष्टाः भवन्ति ? ततः तस्मिन् समये भवन्तः स्वात्मविश्वासस्य मूल्यांकने निमग्नाः भूत्वा स्वपराजयार्थम् आत्म समर्पणं कृतवन्तः । तदा कामदेवः संकुचितः जातः कामवासना च नाशतां गता । मम मुखात् अज्ञानेन निःसृतानां शब्दानां प्रतिकारार्थं भवन्तः निर्गतवन्तः । द्वारे एव स्थित्वा मया विचारः निर्णीतः तथा मम धिक्कारः अस्तु, मम प्रीत्यर्थम् एव भवताम् एतादृशं समाचरणं, तथापि मया किमिदम् उक्तम् इति ।।)

भ्रातृजाया शान्तिः मम इदं गुंजनं श्रुत्वा शयनात् उत्थाय आगता आसीत् । रत्नावल्याः दृष्टिपातः न भवेत् इति चिन्तयित्वा एकत्र स्थित्वा तद् गंुजनं महता मनोयोगेन सा शृणोति स्म । गुंजनस्य समाप्तेः अनन्तरम् अपि रत्नावली चिन्तनं कुर्वती स्थिता आसीत् । एतस्मिन्नेव समये यमुनापारतः शंखध्वनिः तस्याः श्रवणपथि आगत: ।

शान्तिः रत्नावल्याः समीपं समागत्य अवदत् - ‘‘भवती एतादृशी भ्रमिष्टा जाता अस्ति ? मया श्रुतं वर्तते यत् तैः वैराग्य - धारणा कृता अस्ति । भवत्याः भ्राता तु भवत्यै एतत् कथनार्थं धैर्यं धर्तुं न शक्नोति । एतादृशे विचारे निमग्नः सः गृहम् आगत्य अपि निद्रां न गतवान् ।’’

रत्नावली कियन्तं समयं यावत् तूष्णीं गता, ततश्च सा उक्तवती - ‘‘भ्रातृजाये ! अधुना धैर्यं त्यक्त्वा कार्यचालनं न भविष्यति । अहं जानामि यत् यदा मनुष्यः क्रुद्धः भूत्वा गृहात् निर्गच्छति तदा वैराग्यधारणाविषये तस्य मनः स्थिरं भवति । परन्तु वैराग्यम् इति मनोदशायाः परिवर्तनं वर्तते तदर्थं कस्याः अपि वेशभूषायाः परिवर्तनस्य आवश्यकता न भवति ।’’

तत् श्रुत्वा आश्चर्यचकिता भूत्वा शान्तिः अपृच्छत् - ‘‘ननान्दृमहोदये, एतत् भवती कथयति वा ?’’

‘‘हं भ्रातृजाये, एते विचाराः बहुप्राचीनाः । अद्यतनीयः युगः परिवर्तितः अस्ति । अद्यतनीये परिवेशे एते विचाराः मूर्खतां विना अन्यत् किमपि भवितुं नार्हन्ति । तथैव अयं सर्वसमाजः अपि अन्धविश्वासैः निगृहीतः अस्ति । एते विचाराः अधुना अन्धविश्वासैः गणिताः भवन्ति । शब्दानाम् अवमूल्यनं जातं विद्यते । अधुना समाजस्य उपरि अधिकः भारः न स्थापनीयः इति उचितम् एव । वयं परावलम्बिन्यः नहि, स्वावलम्बिन्यः भवामः ।’’

एतत् श्रुत्वा शान्तिः अबोधयत् - ‘‘ननन्दः, अधुना भवत्या समाजस्य उन्नति - अवनतिविषये किं कर्तव्यम् ? न देयं न च अदेयम् । अधुना भवत्या अपि तथा एव समाचरणीयं यथा भवत्याः स्वामिचरणाः समाचरन्ति । शकटस्य एकं चक्रं यथा परिभ्रमति तथा एव अन्यचक्रस्य अपि परिभ्रमणं भवतु ।’’

रत्नावली स्वान्तःकरणे सम्पद्यमानं प्रवाहम् अवर्णयत् - ‘‘भ्रातृजाये ! नारीणां व्यथा पुरुषेभ्यः भिन्ना । यदि पुरुषः गृहात् बहिः गतवान् तर्हि सः महान् भवति, किन्तु नारी यदि गृहात् बहिः निर्गच्छति तदा सा कुलटा उच्यते । भ्रातृजाये, एकः प्रश्नः मम मनसि उत्पन्नाः भवति, यदि भवत्या असम्यक् न मन्येत तदा अहं वदानि वा?

शान्तिः सहजमेव उक्तवती - ‘‘वदतु, वदतु, भवत्याः कथनस्य अन्यथा मया कदापि न मन्यते ।’’

रत्नावली स्वमनोगतं कथितवती - ‘‘अपि भवती मम भारः मन्यमाना न जाता स्यात् वा?’’

शान्त्याः मुखात् शब्दाः निःसृताः - ‘‘हन्त, राम, एतत् किं कथितवती भवती ? मया तु एतदेव उक्तम् आसीत्, यत् अधुना भवत्याः कृते एषा एव तपोभूमिः अस्ति ।’’

ततः रत्नावली तस्याः कथनं पूर्णतया ज्ञातवती यत् भ्रातृजाया किं वक्तुकामा, ततः उक्तवती - ‘‘भ्रातृजाये, भवती मां नैव ज्ञातवती ।’’

शान्तिः बोधयितुम् इच्छति - ‘‘ननन्दृमहोदये, तथा कथनविषयः नास्ति, तथापि भवत्याः वयः उपक्कम् अननुभवसिद्धं च । अतः अयं विचारः भवत्याः ध्याने आनेतव्यः इति मम धर्मः अस्ति ।’’

धर्मः इति शब्दं श्रुत्वा रत्नावली उक्तवती - ‘‘धर्मः अधर्मः चेति एतयोः परिभाषा कठिना अस्ति, तथापि भवती मया किं कत्र्तव्यमिति बोधविषये मां प्रेरितवती ।’’

एतस्मिन्नेव समये पितृचरणानां शब्दाः तस्याः श्रवणपथम् आगताः - ‘‘वत्से ! रत्ने ! पूजाकर्तुं जलम् आनय।’’

तया उत्तरं दत्तम् - ‘‘अधुनैव आनयामि’’ इति उक्त्वा उपरि स्थिता सा अधः अवातरत्। अंगने स्थापितः घटः तया गृहीतः यमुनां प्रति सा प्रस्थितवती । प्रतिदिनं यमुनानदीतः एव जलम् आनीतं भवति स्म ।

अयं ‘महेवा‘ इति ग्रामः यमुनातीरे निवासितः अस्ति । यमुनायाः एकस्मिन् तीरे ‘राजापुरम्’ इति ग्रामः अस्ति अन्यस्मिन् तीरे महेवा इति ग्रामः । अयं ग्रामः इदानींतनसमये इलाहाबाद - जनपदे वर्तते । राजापुरं महेवा चेति अत्र गमनागमनं नौकाभिः प्रचलति । चिरकालतः अनेन प्रकारेण एव चलति । पण्डित - दीनबन्धु - पाठक - महोदयाः प्रतिदिनम् एतस्मात् एव घट्टात् राजापुरं गमनागमनं कुर्वन्ति स्म ।

रत्नावली जलम् आनीतवती । तया पूजापात्रं सिद्धं कृतम् । ततः पाठकमहोदयाः घट्टं प्रति गताः । नौकाचालकः एतेषां प्रतीक्षायां सिद्वः भूत्वा स्थितः आसीत् । ते प्रतिदिनं प्रातः पूजासमये हनुमत्मन्दिरे भवन्ति स्म।

ततः प्रतिनिवृत्य ते गृहे निर्मितमन्दिरस्य पूजां कुर्वन्ति स्म । रत्नावली गृहे निर्मित - मन्दिरस्य पूजाकार्ये सहयोगं करोति स्म । रत्नावली पुष्पाणि आनीय स्थापितवती । दीनबन्धु - पाठकमहोदयाः अकथयन् - ‘‘वत्से, भवत्याः वाल्मीकिरामायणस्य अभ्यासस्य का स्थितिः अस्ति?’’

ततः उत्तरदानार्थं रत्नावली एकप्रसंगविषये कथितवती - ‘‘सीतामाता वाल्मीकि आश्रमे प्राप्ता अस्ति ।’’

पाठकमहोदयैः पुत्री पृष्टा - ‘‘वाल्मीकि - रामायणस्य अध्ययनात् पूर्वं सीतापरित्यागविषये भवत्याः या अवधारणा आसीत् इति एतद्विषये भवत्या किमपि समाधानं प्राप्तं वा?’’

रत्नावली उत्तरदानार्थं पितृचरणेभ्यः अकथयत् - ‘‘मनुष्यस्य अवधारणाः अज्ञानतायाः स्तरात् काश्चित् विभिन्ना: भवन्ति । परन्तु विशेषज्ञानावगते सति ताः स्वयमेव परिवर्तिताः भवन्ति।’’

ततः पाठकमहोदयैः कन्या पृष्टा - ‘‘कन्ये ! रामायणस्य अध्ययनात् पूर्वं सीतापरित्यागविषये रामः यावान् दोषी भवत्या मन्यते स्म तावान् रामः दोषी अस्ति इति अद्यापि मन्यते वा न वा ?

रत्नावली उत्तरं दत्तवती - ‘‘यदा कदा घटनाः अपि विचारग्रहणाय मनुष्यं विवशं कुर्वन्ति। परित्यागः इति एषा घटना नाम एका घटना एव अस्ति । घटना कापि घटिता एव भवति । अस्माभिः यथेष्टं दोषी कोऽपि मन्तव्यः। अग्नि - परीक्षान्ते सीतामातुः परित्यागः आगम्यमानाभिः परम्पराभिः अवश्यम्भावेन अस्वाभाविकः मन्यते तदा च अयं दोषः रामस्य एव मस्तकं प्रलिप्तं करोति ।’’

दीनबन्धुमहोदयाः अमन्यन्त - ‘‘तेषाम् एषा पुत्री चिन्तनस्य गभीरसागरे निमग्नतया कमपि अवतारयति । निश्चितम् एव यत् एतादृशेन एव परिवेशेन एतादृशाः शब्दाः अनया उच्चारिताः यत् कटु - सत्यम् आसीत् ।’’

भ्रातृजाया गंगेश्वरस्य पत्नी शान्तिः रत्नावल्याः पुत्रं तारापतिम् पूजागृहस्य समीपे आनीय अमुंचत् ततः च निर्गता । जानुबलेन चलन् सः पूजागृहम् आगतः । मूर्तिग्रहणाय सः अधावत् । पाठकमहोदयैः सः उद्गृहीतः, ततः उक्तं च - ‘‘तव का चिन्ता ? अयं तारकः आनन्दितः भूत्वा तिष्ठतु । तुलसी यथेष्टं बाबा भवतु अथवा वैरागी भवतु । तेन स्वमनोऽनुसरणं कृतमेव । कस्यापि विचारमग्नतायां मरणमपि न भवति ।’’

रत्नावली पितृचरणानां समक्षं नाधिकं, किंचिदेव वदति स्म । परन्तु यदा तुलसी निर्गतः तदा प्रभृति अधिकमेव सा वदति स्म । तस्याः मुखं मुक्तं जातम् आसीत् । पितृचरणानां कथनं श्रुत्वा सा झटिति अवदत् - ‘‘अस्माभिः मरणं प्रति किमर्थं गन्तव्यम् ? असमये संसारं त्यक्त्वा यः स्वमुक्त्यर्थं भ्रमति तस्य हस्तगतं किमपि न भवति ।’’

पितृचरणैः झटिति उक्तम् - ‘‘विरक्तिः इति इयमेकं भक्तिद्वारं विद्यते ।’’

रत्नावली स्वदृष्टिकोणं प्रकटितवती - ‘‘अनेन मनुष्यः निराशावादी भवति । परन्तु सांसारिकजनेभ्यः इदम् उचितं नास्ति ।’’

ततः दीनबन्धुमहोदयाः कन्यायाः सान्त्वनां कर्तुं अवदन् - ‘‘पुत्रि, भवत्याः कथनं योग्यमेव भवितुम् अर्हति । परन्तु यावत् अस्माकम् आसक्तिः संसारे भवति तावत् रामस्य सन्निकटे वयं न भवामः । तपस: एव शक्यते आत्मोत्सर्गः ।’’

रत्नावली उत्तरं दत्तवती - ‘‘यया तपस्यया प्राणी आत्मोत्सर्गं करोति तस्य उपयोगः यदि समाजं सुखिनं कर्तुं भवेत् तदा भगवतः मनः स्वयमेव तस्मिन् समाजे स्थातुं सिद्धं भवेत् ।’’

दीनबन्धुमहोदयाः गम्भीराः भूत्वा प्रतिपादितवन्तः - ‘‘मनुष्यः एव तादृशः अस्ति यः अन्यजनेभ्यः स्वर्गस्य साक्षात्कारं कारयति ।’’

रत्नावल्या तपस्याविषये स्वविचाराः प्रकटीकृताः - ‘‘परन्तु पितृचरणाः, जनाः तपस्यां चोरयित्वा स्वार्थस्य कृते तां केन्द्रितां कर्तुम् इच्छन्ति । तपस्यायाः चौर्यम् इति कुत्रत्यः न्यायः ?’’

कथनस्य गुणगानं कुर्वन्तः ते पूजायां निमग्नाः अभवन् । रत्ना तारापतिम् उद्गृह्य ततः निर्गतवती ।

घटनाः चेतनाभ्यः मुक्ताः कुर्वन्ति । मनुष्यस्य चिन्तने पक्षाः समुद्वहन्ति । चिन्तनचक्रतः यः मार्गः उपलब्धः भवति तस्य मार्गस्य रेखाः सन्देशवाहकत्वेन कार्यम् अपि कुर्वन्ति । अनेन मनुष्ये उत्साहस्य संचारः अनायासेन भवति ।

पिता पुत्री चेति एतयोः संलापान्ते रत्नावली स्वान्तःकरणे एकं नवीनम् उत्साहम् अन्वभवत्। सा अमन्यत - ‘‘सा पराभूता न जाता जिता एव जाता आसीत् ।’’

- - - - - - - - -