रत्नावली-6-संस्कृतानुवादकः पं. गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-6-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 6

तारापतेः कारणात् रत्नावल्याः मनः अरमत् । तारापतिः स्फुटतया वदति स्म । गृहे स्थिताः सर्वे जनाः तस्य क्रीडानाम् आनन्दम् अनुभवन्ति स्म । मातामहाः तं गृहीत्वा ग्रामे संचरन्ति स्म । रत्नावल्या स्वसंसारस्य सर्वाः आशाः पुत्रस्य उपरि स्थिराः कृताः । तस्य अस्तित्वं मातुलस्य गृहे नहि स्वगृहे एव शेषं स्थिरं भवितुं शक्नोति।

सा अचिन्तयत् - ‘‘अद्य तारापतिः बालकः अस्ति सः श्वः युवकः भविष्यति । भ्रातृजाया च अद्य आत्मीयतां प्रदर्शयति । कः जानाति यत् श्वः कस्य व्यवहारः कथं परिवर्तितः भवेत् ? पुनश्च सम्पूर्णे जीवने मादृशी भगिनी भ्रातुः उपरि भारं भूत्वा तिष्ठति इति एतदपि तारापत्या सह तस्याः न्यायः न भवेत् । तस्मै आत्मनिर्भरं कृत्वा जीवनयापनाय शिक्षणं दातव्यम् ।

अधुना दीपावलिः आगम्यमाना विद्यते । स्वगृहस्य प्रक्षालन - लिम्पनादिकं करणीयम् अस्ति । सम्पूर्णे वर्षाकाले केनापि तत्र न दृष्टम् । गणपतेः बहुवारं सन्देशाः आगताः आसन् । माता आगच्छेत् । तस्य पित्रा अपि सन्देशः प्रेषितः अस्ति । अद्य एतस्मिन्नेव विचारे निमग्ना आसीत् सा । तदा तस्याः ग्रामस्थे सुगन्धा, कौशल्या चेति द्वे सख्यौ गृहम् आगतवत्यौ । तारापतिः क्रीडति स्म । भ्रातृजाया अन्न - पाचयति स्म । कौशल्या सुगन्धा इत्यनयोः बालिकयोः आगच्छन्त्यौ दृष्ट्वा केशरबाई महोदया वलीके गता । सुगन्धा पंचकुट्टे खेलनार्थं प्रस्तावं कृतवती।

‘‘रत्ने बहूनि दिनानि निर्गतानि भवत्या सह पंचकुट्टे क्रीडितान्ते । तस्य दिनस्य भवत्याः स्पर्धाविजयः अद्यापि तथैव अस्ति । तस्य पराजयस्य स्पर्धाविजयम् नेतुम् अद्य आगता अस्मि ।’’

रत्नावली पूर्वसंस्मरणेषु विलुप्ता जाता । दीर्घकालिका गम्भीरता निर्गता । ततः मुखाकृत्यां बाल्यकालीन - चपलता समारूढा जाता । कथितवती च - ‘‘भवत्या अद्यपर्यन्तं अपि पराजिता न कृता अधुना कथं पराजिता क्रियते?’’

कौशल्या विचेष्टिततया कथितवती - ‘हं, भवती आवुत्तेन अपि न जिता ।’’

सुगन्धा अवदत् - ‘‘मध्ये ते किमर्थम् आनीयन्ते भवत्या ? ते तु रामभजने लीनाः जाताः स्युः ।’’

कौशल्या अमन्यत - ‘‘रत्नावल्या एतत् अप्रशस्तं चिन्तितं स्यात् ।’’

अतः सा अवदत् - ‘‘रत्नावले, मम कथनं भवत्या अप्रियं मतं स्यात् ।’’ कौशल्ये एवं कथं वदति ? मया पूर्वमपि कदापि भवत्याः कथनम् असाधुं नैव मतम् । तर्हि अधुना कथम्?’’

किमपि कथनस्य अवसरः सुगन्धया प्राप्तः उक्तं च - ‘‘भगिनि, अत्र निवासं कुर्वाणां भवतीं कति दिनानि अभवन् ?’’

तस्याः कथनस्य गुटी्र पीत्वा तया उत्तरं दत्तम् - ‘‘तथैव ततः तस्य शिष्य - गणपति - पितुः कतिपयाः सन्देशाः आगताः । पितृचरणाः मान्यतां न ददति । कथयन्ति च - ‘‘स्वाधिगमस्य दुःस्थितिं दृष्ट्वा सः स्वयमेव अत्र आगत्य सुष्ठुं कारयित्वा निर्गमिष्यति । एकं गृहं तु पतनमुखे एव अस्ति ।’’

द्वे अपि सख्यौ ज्ञातवत्यौ यत् रत्नावली तत्र गन्तुम् इच्छति, परन्तु पितृचरणाः प्रतिबन्धनं कुर्वन्ति ।

एतत् श्रुत्वा कौशल्या परामर्शं दत्तवती - ‘‘अधुना यस्मिन् दिने गणपतिपितुः सन्देशं प्राप्नोति तस्मिन् एव दिने प्रस्थानम् उचितं भवेत् ।’’

रत्नावल्या तस्याः परामर्शः स्वीकृतः - ‘‘भगिनि, भवत्या सुष्ठु कथ्यते, अधुना मया एव पतिः, पत्नी चेति एतयोः भूमिकायाः परिपूर्तिः करणीया ।’’

सुगन्धा सूचितवती - ‘‘भगिनि, भवती पश्यतु, भवती युवती अस्ति । साम्प्रतं कालः असाधुः । मुगलानां शासन व्यवस्थां भवती पश्यति एव ।’’

रत्नावली उत्तरं दत्तवती - ‘‘मया स्वश्रूः न दृष्टा, न च श्वशुरः अपि । न च कोऽपि ननान्दा दृष्टा । भवत्योः कथनं सुदृढतया ग्रथितं कृत्वा सुरक्षितं स्थापयामि । मया सर्वं ज्ञायते, यत् स्व - सुशीलत्वं, संचरितं च स्व - हस्तगतं वर्तते ।’’

एवं प्रबोधनं कृत्वा तस्याः द्वे सख्यौ स्व - स्वगृहं निर्गच्छताम् । अधुना रत्नावली स्वपुत्रं तारापतिं सम्बोधितवती - ‘‘पुत्र तारापते ! चलतु, अधुना स्वगृहं गच्छावः । तत्रैव सुख - दुःखयोः स्वसमयं व्यतीतं करिष्यावः।’’

एतत् सम्बोधनं काकी - केशरबाई - महोदयया श्रुतम् आसीत् । मर्यादापालनं भवतु इति एतदर्थं तया कासः कृतः आसीत् येन रत्नावली जानीयात् यत् काकीमहोदयया - तत् सम्बोधनं श्रुतम् अस्ति ।

रत्नावली मनसि एव चिन्तयति - ‘‘अस्तु, सम्यक् जातम् एतत् । सर्पः मृतः यष्टिः चापि न त्रुटिता । हे प्रभो - एवमेव मर्यादा पालनं भवतु ।’’

रत्नावल्याः आगमनं राजापुरे भवतु इति सन्देशं गणपतिपिता द्वारकापसाद - उपाध्यायः बहुवारं प्रेषितवान् आसीत् । एतस्मिन् समये पितृपक्षस्य समाप्त्यन्ते तेन स्वपुत्रः गणपतिः महेवाग्रामं प्रेषितः आसीत् ।

गणपतिः तुलसीदासतः दीक्षा गृहीतवान् आसीत् । तदा प्रभृति अनेन परिवारेण सह गृहसम्बन्धः अधिकः जातः आसीत् । ग्रामे नवदुर्गा - पूजा - अर्चनादिकं प्राचलत् । तस्मिन् दिने गणपतिः रत्नामातरं आनेतुं प्राप्तवान् । एतद् दृष्ट्वा दीनबन्धु पाठकमहोदयाः अत्यधिकं प्रसन्नाः अभवन् । चिन्तयन्ति च - ‘‘एतत् सुष्ठु एव संजातम् । इदानीं तु परिपूर्णं गृहं दृष्टं भवति । गणपतिः तां आनेतुम् अत्र आगतः एतदपि साधुः एव । अन्यथा कन्यां रत्नां राजापुरं प्रेषणस्य साहसमेव न अभविष्यत् ।

सम्पूर्णे ग्रामे एषा वार्ता प्रसृता जाता यत् रत्नावलिं आनेतुं प्राप्तवान् । गणपतिः यदा अत्र रत्नामातुः प्रथमं दर्शनं गृहीतवान् तदा सः गुरुदर्शनसमये यथा - प्रणामं करोति स्म तथा एव साष्टाङ्गप्रणामं कृत्वा उक्तवान् - ‘‘मातः, भवती स्वगृहं चलतु । तत्रैव वयं सुख - दुःखादि सहामहे । पितृचरणाः अकथयन् यत् तत्र भवत्याः किमपि कष्टं न भवेत् । पुनश्च गृहावलोकनमपि भवेत् ।’’

ततः रत्नावली अवदत् - ‘‘प्रस्थानं तु भवेदेव, भवतः आगमनं सुष्ठु जातम् । अधुना भवता एवं करणीयम् - मातामहानां दर्शनं करणीयम् ।’’

एतत् कथयित्वा गणपतेः कृते जलपानव्यवस्थां कर्तुं पाकशालायां प्राविशत् । इदानीं पर्यन्तं गृहे स्थिताः सर्वे जनाः गणपतेः समीपं समागतवन्तः । तारापतिः प्रांगणे क्रीडन् आसीत् । गणपतिः तम् उत्थाय गृहीतवान् । ततः तत्रैव स्थितवान् । अल्प - औपचारिक - संलापान्ते तुलसीमहाराजस्य विषये वार्ताः समारब्धाः । गणपतिः स्वस्य चिन्तिते विषये आगतः, उक्तवान् - ‘‘गुरुजी सदृशः अस्मिन् संसारे कः वर्तते ?’’

एतत् श्रुत्वा तस्य प्रशंसाविषये शान्तिः हसितवती । किमपि वक्तुकामा, परं तथा नाभवत्। अनेन सह कथनं ग्रामसीतापारतां गमिष्यति ।

गणपतिः सर्वान् मौनिनः दृष्ट्वा अपि स्वकथनं प्रचालितवान् -‘‘श्रुतं विद्यते यत् गुरुचरणैः वैराग्यं स्वीकृतम् ।’’

काकी केशरबाई महोदयया उक्तम् यत् ‘‘पुत्र, श्रुतमस्ति अस्माभिः अपि । पुष्पसदृशं बालकं त्यक्त्वा विरागी अभवत् इति अयं कं मार्गं दर्शयिष्यति इति सः एव जानीते ।’’

एतत् कथनम् एतादृशम् आसीत्, तेन गणपतिः मौनी जाता । सर्वेऽपि कतिपयक्षणेषु, मौनिनः अभवन् । गम्भीर - उदासीनतान्ते काकी महोदया रत्नाम् अवदत् - ‘‘कन्ये, गन्तुकामा असि वा ?’’

एतस्मिन्नेव समये पितृचरणाः तत्रागताः । काकीमहोदयायाः तत्कथनं तैः श्रुतम् आसीत् । तदर्थं तैः एव उत्तरं देयमिति उचितं मतम्, उक्तं च - ‘‘गृहादीनां संरक्षणादिकम् अधुना एतस्याः एव उत्तरदायित्वं भवति । गणपतिः तां नेतुम् आगतः । अतः प्रेषणमेव उचितम्।’’

प्रस्थानसमये विभागस्थाः काश्चित् स्त्रियः अपि आगताः । सर्वे प्रेषणार्थं यमुना घट्टपर्यन्तं गताः । नौकायां तस्याः आरोहणसमये एव भवति स्म यत् परित्यक्ता - स्व - कन्यायाः प्रेषणं कुर्वन्तः सन्ति । तस्याः जीवनं कथं व्यतीतं भवेदिति कः जानाति