रत्नावली-7 संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-7 संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई

रत्नावली

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 7

नौका राजपुर - घट्टे प्राप्ता । घट्टे केचित् बालकाः स्थिताः आसन् । रत्नामातरं दृष्ट्वा ‘‘माता आगता, माता आगता’’ इति उद्घोषणं ते उच्चैः अकुर्वन् । रत्नामाता नौकातः अवातरत् । एकेन बालकेन तारापतिः गृहीतः। गणपतिः मातुः वस्तूनि गृहीतवान् ।

गृहं यमुनातीरे एव आसीत् । घट्टतः उच्चस्तरे गृहं रचितम् आसीत् । येन यमुनायाः तीव्रमहापूरवेगात् संरक्षितं तद् भवेत् । सर्वे गृहम् आगताः । शास्त्रिकालात् एव गृहकार्ये एका महिला सहायम् करोति स्म । तस्याः नाम आसीत् हरकोमहोदया । हरकोमहोदयातः सन्तानलाभः नाभवत् । अतः तस्याः पतिः जनकू इत्यनेन हरकोमहोदयायाः सम्मतिं गृहीत्वा अन्यया सह द्वितीयः विवाहः कृतः आसीत् । द्वे अपि पत्न्यौ प्रेम्णा समाचरतः स्म । द्वितीयभार्यातः एका कन्या जाता । ततः पत्या हरकोमहोदया गृहात् निष्कासिता । स्वाभिमानिनी हरकोमहोदया पुनः तस्मिन् गृहे पदक्षेपं न कृतवती । शास्त्रिवर्यैः तस्मै शरणं दत्तम् आसीत् । सा अपि एतस्य वलीके स्थिता आसीत् । यः कोऽपि प्रसादलाभः भवेत् तेन उदरनिर्वाहं करोति स्म । श्रावणमासे रक्षाबन्धनसूत्रादिकं कृत्वा सा स्वकार्यम् अपि निर्वहति स्म । जोगिनी जातीया आसीत् । पूर्णग्रामे मन्त्रतन्त्रोच्छ्वासज्ञानिनी एका हरकोमहोदया एव आसीत् । प्रातः कालतः सायङ्कालपर्यन्तं यावत् अत्र तत्र पुनः पुनः तस्याः गमनागमनं चलति स्म । एषा जनसेवा अस्ति इति मत्वा आत्मानं समर्पितां कृत्वा स्थिता जाता आसीत् । ग्रामे पूर्णे कस्यापि दुःखकष्टादिकं स्यात् तदा आह्वयन्तु हरकोमहोदयाम् इति भवति स्म । हरकोमहोदया अपि स्वस्य बुभुक्षा - पिपासादि विस्मृत्य जनसेवायां निमग्ना भवति स्म ।

धन्नोमहोदया इति नाम्ना ग्रामसम्बन्धे काकी अर्थात् पितृव्या इति आसीत् । एषा वृद्धत्वं गम्यमाना अवर्तत । वृद्धस्त्रीजनाः अस्याः पादस्पर्शं कृत्वा प्रणमन्ति स्म । एतत् एतस्यै न रोचते स्म । सा तद्विषये रोधनं करोति स्म किन्तु ताः श्रद्धावत्यः नामन्यन्त । एषा धन्नोमहोदया अपि हरको महोदयायाः कार्ये सहाय्यं कर्तुम् आयाति स्म ।

यदा रत्नावली गृहमागता तदा हरकोमहोदया रत्नावल्याः प्रतीक्षायाम् आसीत् । सर्वे ग्रामवासिनः हरकोमहोदयां हरकोबाई इति सम्बोधयन्ति स्म रत्नालिः अपि तथैव सम्बोधयति स्म । हरको महोदयया तारापतिः गृहीतः । सर्वाणि वस्तूनि मातुः हरकोमहोदयायाः सुरक्षायां समागतम् ।

गङ्गेश्वरस्य कृते प्राङ्गणे पीठासनं स्थापितम् अभवत् । सर्वे एव उपाविशन् । एतस्मिन्नेव समये धन्नोमहोदया आगता । आगमनानन्तरं एव रत्नायाः पादस्पर्शः तया कृतः । उक्तं च - ‘‘अहम् अचिन्तयम् यत् भवती आगच्छति वा न वा ?

‘‘वयं किमर्थं नागच्छामः ? भवती कथयतु स्वस्था अस्ति वा न वा ।’’

एतत् श्रुत्वा तया कथनारम्भः कृतः - ‘‘गुरुमहोदयानां गमनानन्तरं वयं किंचित् अस्वस्थाः स्मः । निद्रा एव निर्गता । अस्माकं ज्ञाने यदि एतद् अभविष्यत् तदा अस्माभिः सः गुरुः न अकरिष्यत् । गुरुः अनेन प्रकारेण एव भवतीं त्यक्त्वा गमनं कृतवान् इत्येतत् अयोग्यमेव । रत्नामाता उक्तवती- ‘‘पितृव्ये सः गच्छतु, सः स्वकार्यं करोतु, वयम् अस्माकं कार्यं कुर्मः ।’’

हरको महोदया धन्नोमहोदयायाः कार्यस्य प्रशंसा कृत्वा तस्याः ऋणमुक्तिं कर्तुम् ऐच्छत् । ‘‘एषा दीना धन्नोमहोदया भवत्याः गृहे सर्वं कार्यं करोति स्म । मम कृते घटद्वये नदीतलं स्थापयति स्म । अहं तु भवत्याः वलीके धन्नोमहोदयायाः विश्वासेन तिष्ठामि।’’

यः शृणोति सः रत्नामातुः दर्शनग्रहणे आगच्छति स्म । अल्पकाले एव पूर्णप्राङ्गणं जनैः अतीवव्याप्तम् अभवत् । गणपतिः इत्यस्य माता आगता । उपविशन्ती सा अवदत् - ‘‘भगिनि, भवती वक्ष्यति भागवन्ती एवं वदति । अरे पुरुषेण सह एतादृशैः शब्दैः किमपि न वक्तव्यम् । अद्य पुरुषः अल्प - स्वल्प - शब्दानाम् अनर्थं मन्यते ।

प्राङ्गणे उपविष्टा बकरीदस्वामिहोदयस्य माता वहीदा अब्रवीत् ‘‘अरे एतादृशाः शब्दाः अल्लाहकृपया उद्गीर्णाः भवन्ति एव । पूर्वमेव मया ज्ञातम् आसीत् यत् शास्त्रिवर्याः अनिच्छुकाः फकीराः एव सन्ति ।’’

गणपतिमाता भागवन्ती अभ्यदघात् - ‘‘यद् भवितव्यं तद् भूतम् । अधुना तस्य विषये कथमपि चिन्तनेन कोऽपिलाभः न भवति ।’’

वहीदा पुनः अब्रवीत् - ‘‘अधुना स्वगृहे सुखसमाधानेन तिष्ठतु भवती । अत्र वयं सर्वे भवत्या सहैव स्मः ।’’

धन्नोमहोदया सुदीर्घं मौनं धृत्वा सर्वासां संलापं शृणोति स्म सा अब्रूत -‘‘यदि भवत्याः सेवायां कापि न्यूनता स्यात् तर्हि निवेदनीयम् ।’’

अन्यथा अभिहितम्- ‘‘यस्मिन् दिने ते श्वशुरालयं गताः तदा रामामैया इत्यनेन सह मेलनं कृत्वा एव गताः आसन् ।’’

द्वितीया अब्रूत - ‘‘यत्किमपि उक्त्वा गताः स्युः तत्सर्वं - कथनस्य ज्ञानं भवेत् ।’’

संलापे परिवर्तनेच्छया तृतीया आख्यात् - ‘‘यः कश्चिदपि सर्वः संलापः जातः, अधुना भगिनि, भवत्याः पितृपादाः कथं सन्ति इति ननु भवती कथयतु ।’’

रत्नावली पीठासनस्थं बन्धुं गङ्गेश्वरं प्रति दृष्टिपातं कृत्वा उक्तवती - ‘‘सुखिनः सन्ति । अधुना ते तीर्थयात्रां कर्तुकामाः येन मनः सन्तुष्टं भवेत् । मम विषये यत्किमपि अवशिष्टं तिष्ठेत् तद्विषये भवत्यः सर्वाः सन्ति एव । अयं तारापतिः । अस्य पालन - पोषणादिकं भवतु इत्यनेन विना कापि मम चिन्ता नास्ति ।’’

जनसम्मर्दतः एका आख्यात् ‘‘पुत्रि, चिन्ता न करणीया, भगवान् एकेन हस्तेन अपहरणं करोति द्वितीयेन हस्तेन आहरणार्थं सूत्रमपि ददाति ।

गोस्वामिवर्यैः राजापुरे हनुमतः प्राणप्रतिष्ठा कारिता आसीत् । अर्चकोऽपि तत्र नियुक्तः कृतः आसीत् । मन्दिरसन्निकटे एव अर्चकपरिवारार्थं निवासस्थानं वर्तते । यः उपहारः अत्र समर्पितः भवति इत्यनेन एव एतेषां भरणं पोषणं च चलति ।

यदा रत्नावली राजापुरे निवासं प्रारभत तदा एकस्मिन् दिने मन्दिरस्य अर्चकः किमपि उपायनं साहित्यं गृहीत्वा रत्नामातुः समीपम् आगतः । न्यवेदयत् च - ‘‘मातः एतत्सर्वं भवत्याः अस्ति ।’’

रत्नावली अब्रूत - ‘‘भ्रातः, भवान् हनुमतः सेवां करोति, अतः अत्र भवतः अधिकारः अस्ति । मम चिन्ता भवता न कर्तव्या । भवान् सम्यग् रीत्या मनसा बजरङ्गवली इत्यस्य सेवां करोतु ।’’

अर्चकस्य निर्गमनान्ते स्वजीवन - निर्वहणार्थं चिन्तनं समारब्धम् । ‘‘कथयन्ति, ब्राह्मणस्य संचिका सुवर्णस्य भवति, भिक्षार्थं लज्जा न धारणीया । साधु साधु, एषा का व्यवस्था ब्राह्मणैः अङ्गीकृता विद्यते ? भिक्षायाचनातः निःकृष्टम् अन्यत् किमपि नास्ति इति मया मन्यते । कस्यापि पुरतः हस्तप्रसारेण मम प्राणाः एव निर्गताः भवन्ति । भिक्षायाचनापेक्षया माता - यमुनायां निमज्जनं कृत्वा प्राणाः मोक्तव्याः इत्येव समुचितम् । उदरभरणार्थं कस्य अपि पुरतः हस्तप्रसारणं न करिष्यामि कदापि । अहं श्रमं करिष्यामि ।’’

प्रश्नः जातः - ‘‘श्रमं किं करिष्ये ? अहं सुशिक्षिता अस्मि । बाल - बालिकाः शिक्षिताः कर्तुं शक्नोमि । अस्तु, एतदेव अनुचरिष्यामि । एतदेव मम तेषां च सम्मानार्थम् उचितं भवेत् । अस्तु एतदेव.........।

- - - - - - - - -