रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 18

रामचरितमानसस्य कथाः जनानां चर्चा विषयाः जाताः आसन् । परिसरीयाः जनाः चर्चासु सहभागग्रहणार्थं रत्नावल्याः समीपं समागच्छन् । प्रातः कालतः सायंकालपर्यन्तं यावत् आगच्छतां निर्गच्छतां च जनानां अखण्डावलिः एव चलति स्म । प्रातः काले सायंकाले च मानसस्य पाठः प्राचलत् । मध्यान्तरे मानसस्य प्रसंगानां चर्चा चलति स्म इत्येव नहि जनाः भोजन - पानादिसमये अपि चर्चां कुर्वन्तः अतिष्ठन् । गृहे गृहे अपि अयमेव चर्चाविषयः जातः आसीत् । गृहे स्थिताः जनाः यदा संलापं कुर्वन्ति स्म तदा अपि एषा एव चर्चा, पुनश्च कोऽपि अतिथिः आगताः भवेत् तदा अपि अनया चर्चया विना अन्यविषयस्य कोऽपि संलापः न भवति स्म ।

एकस्मिन् दिने गणपतिः रामाबन्धुः च रत्नामातरम् अपृच्छताम् मातः, आवामपि मानसस्य पाठं कर्तुम् इच्छावः । तदर्थं भवत्या यदि मानसस्य प्रतिलिपीः करणार्थम् अनुमतिः दीयते तदा ननु आनन्दः एव जायते । समाजे एतस्य मानसस्य यावत्यः प्रतिलिपयः प्रसारिताः भवन्ति तदा सुष्ठु एव भविष्यति ।’’

एतत् श्रवणानन्तरं रत्नावली अभ्यदधात् - ‘‘एषा रचना जनमानसार्थम् अस्ति । समाजे एतस्य यावान् प्रचार - प्रसारः भविष्यति तावान् अत्र समाजकल्याणस्य लाभः एव भविष्यति । अन्य विभागेषु अपि मानसस्य प्रतिलिपयः प्राप्ताः भवन्तु ।’’

एतदाकर्ण्य गणपतिः रत्नामातरम् अवदत् - ‘‘बाढम्, एव मातः, कर्गजपत्राणि प्रार्थितानि भवन्ति एतदपि कार्यं च शीघ्रमेव आरभते ।’’

कमपि प्रयागं प्रति सम्प्रेष्य कर्गजपत्राणि आनाययितानि । प्रतिलिपि - सिद्धीकरणस्य कार्यं समारब्धम् । प्रातः काले सायंकाले च पाठः प्राचलत् । मध्याह्ने जनाः मानसस्य प्रतिकृतीः करणे संलग्नाः भवन्ति स्म । शंकासमाधनमपि सहैव प्राचलत् । यदा काश्चन प्रतिलिपयः सिद्धाः जाताः तदा मानसस्य पाठं कुर्वाणा जाताः आसन् ।

रत्नामातुः जीवनम् एतावत् व्यस्तं जातम् आसीत् यत् ज्ञानमपिनाभवत् अद्य यावत् जीवनस्य कति भागः निर्गतः अस्ति । रत्नामाता मानसस्य सेवायाम् तथा रममाणा जाता आसीत् यथा काचित् पतिव्रता स्त्री पतिसेवायामेव रता भवति ।

केशाः श्वेताः जाताः सन्ति । मुखमुद्रायां वलयः समुत्पन्नाः जाताः । जीवनस्य अन्तिमसमयः समीपे आगम्यमानः अभवत् । तथापि जनाः प्रातः कालतः सायंकालपर्यन्तं यावत् रत्नामातुः गृहे गमनागमनं कुर्वन्ति स्म । अधुनातने नु जनाः दूरातिदूरग्रामेभ्यः तस्याः दर्शनार्थं गमनागमनम् अनुतिष्ठन्ति स्म । समागतानां जनानां प्रबन्धं यथापूर्वं परिसरीयजनाः कुर्वन्ति स्म ।

केनापि प्रकारेण तस्याः कृते कोऽपि अभावः नाभवत् । कापि चिन्ता नासीत् । तथापि एकः एव विषयः मनसि समु˜वति स्म यत् अन्तिमसमये ते मम सान्निध्ये भवन्तु । मम अन्तिमसंस्काराः तेषामेव हस्ताभ्यां भवन्तु।

न जाने एषा वार्ता मम मुखात् कथं निःसृता एतावत् दीर्घकाले काचित् तादृशी वार्ता कथं स्मृतिपथि स्थापयितुं शक्नोति ? ते किमर्थं स्मरन्तु ? एते आदिशंकराचार्य इव न भवितुम् अर्हन्ति, यत् सः स्वमातुः अन्तिमसंस्कारार्थं समयेन प्राप्तः आसीत् ।

मानसविषये चर्चाणां क्रमः अधुनापर्यन्तमपि पिहितः न जातः आसीत् । एकदिने अन्यविभागीयाः जनाः अपि तत्र आगताः आसन् । केनापि रत्नामातरं प्रश्नः कृतः - ‘‘मातः, एकः प्रसंगः अस्माकं ध्याने नागता । गोस्वामिवर्यैः रामचरितमानसे लवकुशकाण्डः किमर्थं न लिखितः ?’’

रत्नावली तूष्णीं गत्वा एतस्य प्रश्नस्य उत्तरान्वेषणं मनोमनसि कुर्वाणा स्थिता । तस्याः मनसा यद् उत्तरं स्वीकृतं तदेव उक्तम् - ‘‘पश्यतु भ्रातः भवान्, मया मन्यते यत् तेषां रामः सीतामातुः त्यागं कर्तुं न शक्नोति । एतदर्थम् एव सः प्रसंगः तैः त्यक्तः स्यात् ।’’

सर्वैः अमन्यत - ‘‘यथा व्यवहारः गोस्वामिवर्यैः स्वपत्न्या सह कृतः तथैव व्यवहारं तेषां रामः सीतामात्रा सह कर्तुं न शक्नोति ।’’

उत्तरात्परम् एकेन साहसं कृत्वा पुनरपि उक्तम् - ‘‘मातः, लोकभाषायां रामचरितमानसस्य रचनायाः महान् विरोधः कैश्चन जनैः कृतः अस्ति ।’’

ततः रत्नामाता उत्तरं दत्तवती - ‘‘बन्धो, पश्यतु भवान्, आरम्भकाले यावान् विरोधः आसीत् तावान् विरोधः अधुना भवति किं वा ?’’

सर्वैः अपि उत्तरं दत्तम् - ‘आम्, अधुना ननु सर्वे महान्तः विरोधिनः परास्ताः जाताः सन्ति ।’

हरकोमहोदया स्वस्याः पूर्वस्मरणस्य विषये श्रावितवती - ‘‘अरे, यदा वयं भ्रातृजायया सह काशीं गताः आस्म, तदा जनानां मुखात् एतत् श्रुतं यत् एषा गोस्वामिवर्याणां पत्नी अस्ति, पुनः भवन्तः पश्यन्तु, तदा जनाः किं किं कथयन्तः आसन् । तत्र तदा ज्योतिषिपत्नी, टोडरपत्नी च इति उभाभ्यां सहैव ते जनाः महता कष्टेन दूरीकृताः आसन् । ते उभे अतीव साहसवत्यौ स्त्रियौ स्तः ।’’

एतत् कथयित्वा सा तूष्णीं गत्वा स्थिता अधुना जनाः परस्परं संवदन्ति स्म, केनापि एकः प्रश्नः पुनरपि उत्थापितः उक्तं च - ‘‘मातः, श्रुतमस्ति मया यत् रामचरितमानसस्य पाठकर्तारः महान्तं लाभं लभन्ते ।’’

रत्नामाता अवदत् - ‘‘अरे, एतस्याः रचनायाः उपरि पवनपुत्रस्य पूर्णा कृपा अस्ति। एतस्य पाठेन भूतपिशाचबाधाः ननु निश्चितरूपेण अपि दूरं प्रधावन्ति ।’’

जनसम्मर्दात् एकेन उच्चस्वरेण कथितम् - ‘‘मानसस्य पाठः येन उद्देशेन क्रियते कार्यते च सः उद्देशः निश्चितरूपेण पूर्णताम् एव गच्छति ।’’

अधुना जनाः परस्परं संवादं कुर्वन्ति स्म । अन्योन्यं किमपि निश्चितरूपेण क्रियमाणम् अभवत् । रत्नामाता तेषाम् अन्योन्यं क्रियमाणं कथनं शृणवती स्थिता ततश्च उक्तवती - ‘‘बान्धवः, भवद्भि: एषा भाषमाणता त्यक्तव्या, मानसपाठं कृत्वा दृश्यताम् ।’’

एनं निर्णयं गृहीत्वा जनाः निर्गताः । रत्नामातुः अपि विश्रामसमयः जातः । यदा सा एकाकिनी भवति स्म तदा सा एतादृशं किमपि चिन्तनारम्भं करोति स्म ।

गोस्वामिवर्याणां पत्नी अहम् अस्मि, इति सम्बन्धेन जनाः एतादृशान् प्रश्नान् मम समक्षं मण्डयन्ति स्म । जनाः चिन्तयिष्यन्ति, अहं मानसं अधिकतया अवगतवती स्याम्, जनाः मम मतमपि ज्ञातुम् इच्छेयुः, अतः एव एतादृशाः तादृशाः च प्रश्नाः जनैः क्रियन्ते ।

मम मनसि अपि प्रश्नोत्तराणि चलन्ति एव । वनवाससमये रामस्य, सीतायाः च संयमितं जीवनं व्यतीतीकरणं, अहं येन प्रकारेण जीवनस्य अपेक्षां करोमि स्म, तथैव चित्रं भवद्भि: समानीतः संयमः अस्ति । भवतां संयमं कोऽपि नाशतां नेतुम् इच्छति तदा तं तथैव दण्डयितुं भवन्तः इच्छन्ति यथा लक्ष्मणेन शूर्पणखा दण्डिता जाता आसीत् ।

‘‘यथेच्छं किमपि जातं स्यात्, परन्तु मानसरचना - समये मामपि नहि विस्मृतवन्तः एते इति एव माननीयं भवति ।

श्रीशंकरः पार्वतीं कथाश्रावयन्ति । मानसस्य पाठसमये मम वारं वारं भ्रमः भवति यत् स्वामिचरणाः तत्र स्वयमेव मां सम्बोध्य कथाश्रावणं कुर्वन्ति अहं च परिपूर्णमनोयोगेन कथाश्रवणं कुर्वती स्थिता अस्मि ।’’

श्रीरामस्य नामग्रहणं ननु भावेन वा कुभावेन वा कथमपि भवतु तत् लाभकारि एव अस्ति। अस्थि - मांस - प्रीतिं त्यक्त्वा मनः रामभजने रमते । ममापि एषा एव दशा, तेषामपि एषा एव दशा अस्ति । एतत् चिन्तनं कृत्वा किमपि गुनगुनायनार्थं मनः ऐच्छत् -

श्रीरामं नूनं मेऽत्र भजे,

नश्वरे शरीरे ये न रमन्ति ।

धन्याः सन्ति ते विश्वस्मिन्,

नूनं च ह्यत्रवासनां त्यजन्ति ।।

श्रीरामः निवसति मम हृदये,

मनसः निर्गताः विकारास्ते ।

सत्ये निष्ठा ननु पदे पदे,

जीवति हि धरिण्यां सत्यं हे !

हरिपदे मनः मननं करोति,

चित्तं किं चंचलतां याति ।

जानामि न, कः चित्ते हि वसति,

‘भावुकः’ नु कः किं किं कथयति ?

(अस्थि - मांस - प्रीतिं त्यक्त्वा चेतो, रामभजने रमते सदा ।।

यथेच्छं कथमपि भजनीयो रामो, जागर्ति बोधोऽलक्ष्यरामस्य ।।

मम मधुवनमस्ति रामचरितमानसमेवा मद - मदिरालयस्य त्यागो

भूत्वा, सत्यप्रीतिर्यत्र परिपुष्टा दृष्टा दृढा च भवती ।।

चरणानुचरणं यत्रार्पितं भवति सत्यार्थं,

सत्यमेतन्मन्तव्यं तत्र पृथिव्यां स्वयमेव सत्यं जीवितं तिष्ठति ।।

अस्मदीयं चित्तमनु भवति यत् प्रीतमस्माभिः प्रभोः पानपात्रम्,

तथापि न ज्ञायते यत् सन्देहं करोति भावुकमनः किमर्थम् ?)

गीतस्य शब्दानां गुंजनं रत्नामाता पुनः पुनः करोति स्म सुदीर्घरात्रि पर्यन्तम् । तत्पश्चात् सा मालां गृहीतवती, श्रीरामस्य सम्मुखे प्राप्तवती च । यदा सा निद्रां गम्यमाना जाता तदा ततः सा उत्थिता । परन्तु जयमालां विना एव प्रतिदिनं तस्याः अजपाजपनं पूर्ववदेव प्राचलत् ।

- - - - - - - -