रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
  • My Wife is Student ? - 25

    वो दोनो जैसे ही अंडर जाते हैं.. वैसे ही हैरान हो जाते है ......

  • एग्जाम ड्यूटी - 3

    दूसरे दिन की परीक्षा: जिम्मेदारी और लापरवाही का द्वंद्वपरीक्...

  • आई कैन सी यू - 52

    अब तक कहानी में हम ने देखा के लूसी को बड़ी मुश्किल से बचाया...

  • All We Imagine As Light - Film Review

                           फिल्म रिव्यु  All We Imagine As Light...

  • दर्द दिलों के - 12

    तो हमने अभी तक देखा धनंजय और शेर सिंह अपने रुतबे को बचाने के...

श्रेणी
शेयर करे

रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 16

राजाघट्टतः गोस्वामिवर्यान् अनुज्ञाय प्रत्यागताः आसन् जनाः । तस्माद् दिनात् एव तेषां मनसि काशीयात्राकरणीया इति विचारः पुनः पुनः चलति स्म । यदा यदा द्वि - त्रिवृद्धजनानां मेलनं भवेत् तदा तदा अपि तीर्थयात्रा करणीया इति योजना - सिद्धीकरणे चर्चा चलति स्म तेषाम् । गणपतिः एतस्यां योजनायां विश्ष्टिां भूमिकां निर्वहति स्म । केचित् जनाः सहैव चलनार्थं प्रेरिताः तेन क्रियन्ते स्म । शनैः शनैः केषांचन जनानां मनांसि तीर्थयात्राकर्तुं सिद्धानि जातानि । अधुना रत्नामातुः मनः सिद्धीकरणस्य एव कार्यम् अवशिष्टम् आसीत् । रत्नावली अधुना रत्नामाता इत्येव नाम्ना प्रसिद्धा जाता आसीत् । ग्रामस्थानां वयोवृद्धानां तपोवृद्धानां महिलानां गमनागमनम् एनं विषयम् आश्रित्य एव रत्नामातुः गृहे प्राचलत् । गणपतिमाता - पार्वत्या सह दुर्गा, सोमवती चेति एतयोः अपि आगमनम् अभवत् रत्नामातुः गृहे । तासां पदध्वनिं श्रुत्वा रत्नामाता वलीके आगता । एताः सर्वाः दृष्ट्वा तस्याः मनः आनन्दितम् अभवत् । तया अवगतमपि यत् एतासां चर्चायां स्वामिचरणानां चर्चा अवश्यभावेन भवेदेव । यदा यदा एतादृशः प्रसंगः आगच्छति स्म तदा तदा तेषां संस्मरणं पुनर्नवतां गच्छति स्म । तस्याः स्मरणपटलोपरि विस्तीर्यमाणायाः अस्पष्टतायाः स्तरणं तस्याः स्मरणपटलतः दूरे भवति स्म ।

ताः सर्वाः समागत्य वलीके उपाविशन् । भागवत्याः कृते रत्नामाता पीठं स्थापितवती । वार्तालापः प्राचलत् । वार्तालापारम्भः भागवत्या कृतः - ‘‘अरे सर्वे ग्रामस्थाः कथयन्ति - चलन्तु, कुत्रापि परिभ्रमणं कृत्वा प्रत्यागच्छामः ।’’

रत्नामाता सरलतां गत्वा अपृच्छत् - ‘‘कुत्र गच्छामः ?’’

भागवती अकथयत् ‘‘गच्छामः कुत्र ! अरे, सर्वं जीवनम् अद्य यावत् अत्रैव व्यतीतं जातम्। केवलं, चित्रकूटगमनम् अभवत् भवत्या सह । ततः अपि कति दिनानि निर्गतानि ?’’

कथनमिदं सोमवती वर्धनतां नीतवती - ‘‘अस्मिन् समये काश्यां श्रीविश्वनाथः भगवान् इत्यस्य दर्शनं गृहीत्वा प्रत्यागच्छामः ।’’

रत्नावली अमन्यत् - ‘‘एताः सर्वाः एव निश्चितं कृत्वा एव आगताः वर्तन्ते । मया ननु कोऽपि विचारः एव न कृतः तथा ।’’

एतत् चिन्तयित्वा सा अगदत् - ‘अहं तु छात्राणां परीक्षायाः विषये चिन्तयन्ती आसम् यत् परीक्षायाः निवृत्यनन्तरं चलामः । भवतीं विना वयं न गच्छामः नूनम् ।’’

एतदाकर्ण्य हरकोमहोदया अकथयत् - ‘‘अरे भ्रातृजाया यदा गमिष्यति तदैव अहमपि तया सह आगमिष्यामि, यदि भ्रातृजाया मह्यं सम्मतिं न ददाति तदा तत्कथनं भिन्नमेव ।’’

रत्नावली अवदत् - ‘‘अहं किमर्थं सम्मतिं न ददामि । सर्वं जीवनम् अत्र पतत् पतत् एव निर्यातं विद्यते । साधु, सर्वाः एव चलामः ।’’

उत्साहेन हरकोमहोदया अवदत् - ‘‘श्रीरामस्य इच्छा यदि भविष्यति तदा गोस्वामिवर्याणां दर्शनं काश्यामपि भविष्यति यथा चित्रकूटे तेषां दर्शनलाभः जातः आसीत् ।’’

एतत्कथनं भागवत्या वर्धमानतां नीतम् - ‘‘श्रुतं वर्तते यत् ते यदा राजापुरतः प्रस्थिताः तदा प्रभृति ते काश्यामेव निवसन्ति । रामलीला प्रचालिता कृता अस्ति एतैः ।’’

रत्नावली अमन्यत - यथाशीघ्रं तथा तत्र गमनं कर्तव्यम् अस्माभिः । रामलीला - दर्शनलाभः अपि भविष्यति। तदा एव दृष्टिकोणः परिवर्तितः । स्वामिचरणाः न जाने चित्रकूट इव तत्रापि न मेलनस्य ब्याजं कुर्वन्तु ।

मौनेन उपविशन्तीं रत्नामातरं दृष्ट्वा भागवती अवदत् - ‘‘ननु तत्र चलनं निश्चितम्, भवती भवत्याः शिष्याणां परीक्षायाः निर्वहणं करोतु । आगमि सोमवासरे प्रस्थानं कुर्मः ।’’

सर्वासां मुखेभ्यः निःसृतं जातम् - ‘बाढम्, सोमवासरे एव प्रस्थानं सुयोग्यं भवेत् । रत्नावली अनया योजनया ज्ञातवती - ‘मां गृहीत्वा काशीं गन्तुमेव एषा सर्वा योजना संयोजिता जाता ।’ अहं अतीव भाग्यशालिनी अस्मि यत् सर्वेषां प्रीतिः मया एतावती अधिकतया प्राप्यते ।’’

जीवनस्य कस्मिन्नपि चतुष्पथे स्थित्वा यदा वयं चिन्तनं कुर्मः तदा याः काः अपि घटनाः घटिताः जाताः सन्ति, ताः सर्वाः अपि पूर्वनियोजिताः स्युः इति एव दृश्यते । मनः दुःखितं कुर्वाणाः घटनाः अपि सुखं शान्तिं च दातुम् प्रारभ्यते । एतादृश्यां स्थित्यां जीवनस्य अर्थः एव परिवर्तितः भवति ।

पूर्वनियोजित कार्यक्रमानुसारं रत्नावली तीर्थयात्रायाः सिद्धतां समारब्धवती । न ज्ञायते यत् हरकोमहोदया अपि केषां स्वप्नानां संयोजने संलग्ना अभवत् । रत्नावली अवगतवती - ‘‘स्वामिचरणानां दर्शनम् अपि भविष्यति । प्रभुः केन प्रकारेण दर्शनयोगम् आनयति इति सः एव जानाति । अयं विचारः मनसि अपि न कृतः आसीत् । मार्गे खादनार्थं पानार्थं च प्रबन्धः कृतः अस्ति । सत्तू (चणक - चूर्णस्य व्यवस्था जाता) सर्वे जनाः सर्वाः च स्त्रियः रत्नामातुः गृहे एव एकत्रिताः जाताः । यथासमयं गृहात् सर्वे प्रस्थानम् अकुर्वन् । सर्वे च ग्रामस्य परिक्रमां अन्वतिष्ठन् । हनुमतः च दर्शनं कृत्व सर्वे घट्टे आगच्छन् । सर्वेभ्यः यात्रिकेभ्यः सर्वाभ्यः च यात्रिकाभ्यः अनुज्ञां प्रदातुं प्रायः सर्वे ग्रामस्थाः आगताः आसन् । एतदर्थं राजापुरे एकमपि गृहं नावशिष्टं यस्मात् गृहात् कश्चन एकोऽपि अनुज्ञां प्रदातुं नागतः स्यात् इति । घट्टे यदा यात्रिकसमुदायः आगत्य स्थितः तदा जनाः रत्नामातुः चरणस्पर्शार्थं धावन्तः समागच्छन् सामथ्र्यानुसारं सर्वे जनाः धनं दत्वा श्रद्धया चरणस्पर्शं कृतवन्तः । सर्वे जनाः यदा चरणस्पर्शकार्यात् निवृत्ताः जाताः तदा माता नौकां समारूढा । ग्रामवासिभिः अश्रुपूर्णनेत्रैः अनुज्ञा प्रदत्ता ।

एषा वार्ता महेवा ग्रामे अपि प्राप्ता आसीत् । महेवा ग्रामवासिनः अपि यात्रिकान् आआनेतुं घट्टे आगताः आसन् । यदा रत्नामाता नौकातः अवतीर्णा तदा सर्वे महेवा ग्रामवासिनः घट्टे उपस्थिताः जाताः एव आसन् । गंगेश्वरः अग्रे आगतः, भगिन्यै दक्षिणां दत्तवान्, तस्याः चरणौ अस्पृशत् । ग्रामवासिभिः अन्यजनैः अपि एवमेव तस्याः चरणस्पर्शः कृतः । यात्रिकसमुदायस्य प्रस्थानं ग्रामपाश्र्वतः भवितुम् अर्हति स्म । ग्रामवासिभिः कंचन कालं यावत् ग्रामे विरामं कर्तुं यात्रिकेभ्यः निवेदनं कृतम् । परन्तु अग्रे गमनस्य यात्रिकाणां तीव्रां इच्छां दृष्ट्वा महेवाग्रामवासिभः अग्रे गमनार्थं तेभ्यः अनुज्ञादानस्य एव निर्णयः कृतः । ततः एव ते यात्रिकाः अग्रे प्रस्थिताः । अधुना महेवाग्रामस्थाः जनाः अपि ततः अग्रे नान्वगच्छन् । एवं तेषां तासां च यात्रिकाणां अग्रिम - प्रवासारम्भः अभवत् । प्रयागं प्राप्नुवतां तेषां रात्रिसमयः अभवत् । रात्रौ सक्तुभक्षणं कृत्वा जलं पीत्वा च ते सर्वे यात्रिकाः निद्रावशं गताः । अग्रिमे दिने सर्वेऽपि सपद्येव प्रत्युषसि जागृताः अभवन् । सर्वैः यात्रिकैः त्रिवेणीसंगमे आनन्देन स्नानम् आचरितम् । ततः च प्रयागस्थानां सर्वेषां मन्दिराणां दर्शनार्थं ते सर्वे प्रस्थिताः । अयं दिवसः अत्रैव व्यतीतः अभवत् । तृतीयदिनस्य यात्रा काशीगमनार्थं प्रारभत । मध्ये एव एकस्मिन् दिने कस्मिन्नपि ग्रामे विश्रामः जातः, तथा तैः विश्रामः गृहीतः । ततः ते काशीं प्राप्तवन्तः । दिनम् अस्तं गम्यमानम् अभवत् । तदा गंगाघट्टे ते प्राप्तवन्तः । सर्वेषां मनसि उत्साहः जातः आसीत् यत् अद्य ‘श्रीविश्वनाथ भगवतः’ दर्शनलाभः भविष्यति । रत्नावली ननु स्वामिचरणानां दर्शनस्य लालसायां लीना जाता आसीत् ।

गोस्वामिवर्याः लोलार्ककुण्डे एकस्मिन् मठे निवसन्तः सन्ति इति ज्ञात्वा सर्वे यात्रिकाः लोलार्ककुण्डं प्रति प्राचलन् । रामाबन्धुः अवदत् - ‘‘अत्रस्थाः पण्डाः अर्चकाः च गोस्वामिवर्याणां महान्तः विरोधिनः सन्ति ।’’

राजापुरग्रामवासिषु एकः अवदत् - ‘‘पश्यन्तु, अग्रे एकस्मिन् अपि दिने एते सर्वे गोस्वामिवर्याणां पुरतः नतमस्तकाः भूत्वा स्थास्यन्ति ।’’

रत्नावली सर्वेषां वार्तां श्रुत्वा वदन्ती आसीत् - ‘‘विरोधिभावेन कतिचन तत्त्वानि गुप्तानि भवन्ति । तथ्यानि यावत् गभीरानि भवन्ति विरोधः तावत् तीव्रतया एव प्रजायते । यदि विरोधिभिः पुष्टानि तथ्यानि न प्राप्यन्ते तर्हि तेषां विरोधः धूलिधूसरितः भूत्वा उड्डीयते ।’’

एतादृशीं चर्चां कुर्वाणाः ते सर्वेऽपि मठे प्राप्तवन्तः । सर्वे एव मठात् बहिः एव अतिष्ठन्। गोस्वामिवर्याणाम् अनुमतिं विना मठे प्रवेशः अनुचितः एव भवति । रामाबन्धुः मठं प्राविशत् । यदा सः प्रत्यागतः तदा तेन सह स्वयं गोस्वामिवर्याः अपि आसन् । तान् दृष्ट्वा सर्वेषां शरीराणि रोमांचितानि अभवन् । सर्वेषां शरीरेषु रक्तसंचारः अतिवेगेन आरब्धः । सर्वे एव तेषां चरणस्पर्शार्थं त्वरमाणः जाताः ।

रत्नावली अपि केनापि अज्ञातपाशेन बद्धा भूत्वा तेषां चरणपर्यन्तं प्राप्तवती । तेषां चरणयोः स्वमस्तकं तया न्यस्तवती । ध्वनिः तस्याः श्रवणे आगत: - ‘‘उत्तिष्ठन्तु, उत्तिष्ठन्तु ।’’

ततः सा उत्थिता । मुखमुद्रायां तस्याः दृष्टिः गता - ‘‘मुण्डितं शिरः, दीर्घा शिखा, मुखमुद्रातेजः अधिकतया व्यलसत् । यथैव नेत्रमेलनं जातं, तथैव रत्नावल्याः नेत्रे श्रीस्वामिचरणयोः प्राप्तवती । गोस्वामिवर्यैः एकः साधुः तस्य नाम्ना एव समाहूतः - ‘‘रत्नदास !’’

सः अवदत् - ‘उपस्थितः महाराजाः’ गोस्वामिवर्यैः सः आदिष्टः - ‘‘एतेषां कृते निवासव्यवस्था कर्तव्या । अयमादेशः तेन सहजतया एव अनुमतः ‘‘अस्तु महाराजाः ।’’

सर्वे उत्थाय तं साधुम् अनुगतवन्तः । समीपस्थे एव एकस्य लधुमन्दिरस्य निवासस्थाने सर्वेषां निवासस्य प्रबन्धः कारितः जातः । तस्मिन् निवासस्थाने कटाः विस्तीर्णाः कृताः । सर्वे बहुश्रान्ताः जाताः आसन् । अतः विश्रामं गताः । रत्नामातुः निद्रावशात् केवलं नेत्रनिमीलनारम्भः जातः आसीत् तदा एकः अन्यः साधुः भोजनग्रहणस्य कृते तान् सर्वान् नेतुम् आगतः अवदत् - ‘‘गोस्वामिवर्यैः कथितमस्ति - सर्वैः भोजनार्थम् आगन्तव्यं, भोजनं सिद्धं जातम्।’’

सर्वे लोलार्ककुण्डस्य तस्मिन् एव मठे प्राप्तवन्तः, यत्र गोस्वामिवर्याः निवसन्ति स्म । सर्वेषां कृते तत्र पत्रावलिः मण्डिता जाता । रोटिका - सूपयुक्तं भोजनं बुभुक्षायाम् अद्वितीयं भवति । गोस्वामिवर्याः तुलसीदासमहाराजाः तस्मिन् स्थाने काष्ठोत्पीठिकासने उपविष्टाः सर्वान् भोजनं कुर्वतः दृष्टाः आसन् ।

भोजनग्रहणानन्तरं सर्वे प्रत्यागताः आसन् । दिनद्वयं यावत् रत्नावली स्वामिचरणानां सम्मुखे नाभवत् । गोस्वामिचरणानां विरोधविषये रत्नावली अधिका प्रभाविता जाता आसीत् । रामचरितमानसस्य चर्चा गृहे गृहे प्राचलत्। यदा जनानां ज्ञाने एवमपि आगतं यत् गोस्वामिवर्याणां पत्नी तीर्थयात्रार्थम् अत्र आगता अस्ति । तदा तस्याः दर्शनार्थमपि जनानाम् आगमनं प्राचलत् । केषुचित् स्थानेषु गमनार्थम् अपि निमन्त्रणानि आगतानि । परन्तु सा एतावदेव कथयति स्म - ‘‘अहम् अत्र एव एतैः जनैः सह सुखेन अस्मि ।’’

हरकोमहोदया वारं वारं तां तत्र तत्र गमनार्थं प्रेरितां करोति स्म । एकस्मिन् दिने रामाबन्धुना सह गोस्वामिवर्याणां सखा पण्डित - गंगाराम ज्योतिषी समागता । रत्नामातुः चरणस्पर्शं कृत्वा अवदत् - ‘‘मातः अहं गोस्वामिवर्याणां सेवकः अस्मि । मया गोस्वामिवर्याः विज्ञापिताः तदा तैः कथितम् - यदि भवान् रत्नावलिमहोदयाः एव पृच्छतु चेत् उचितं भवेत्। एवमेव अत्रस्थानां मन्दिराणां दर्शनं कारयिष्यामि ।’’

एतदाकर्ण्य रत्नावली अवदत् - ‘‘भ्रातः, भवतः गृहम् आगमिष्यामि, परन्तु अत्रस्थानां मन्दिराणां दर्शनं ननु अहं राजापुरतः आगतैः एतैः जनैः सहैव करिष्यामि ।’’

श्रुत्वा सर्वे अतिप्रसन्नाः अभवन् । सर्वेषां ज्ञाने एवमपि आगतं यत् रत्नामाता अस्मासु कियत् स्निह्यति ?

तस्मिन् दिने अपराह्णे ज्योतिषिगृहात् अश्वशकटः आगतः । ‘शीघ्रमेव प्रत्यागमिष्यामि’ इति सर्वेभ्यः निवेद्य सा ततः प्रस्थिता । तत्र गमनानन्तरं ज्योतिषिपरिवारेण सह एवमेव च टोडर परिवारेण सह मेलनं प्राचलत् । पूर्णसमयं यावत् गोस्वामिवर्याणां रचनायाः प्रशंसाम् आश्रित्य चर्चा प्रचलति स्म । टोडरमहोदय द्वारा रामचरितमानसस्य प्रतिलिपीनां सिद्धीकरणकार्यं प्रचलति स्म । केचित् छात्राः एतस्मिन् कार्ये संलग्नाः आसन् । एतत् सर्वं दृष्ट्वा सा अत्यधिकतया आनन्दिता अभवत् ।

तृतीये दिने सर्वैः सह काशीदर्शनार्थं सा प्रस्थिता । प्रातः एव किमपि भुक्त्वा पीत्वा च सर्वे प्रस्थिताः भवन्ति स्म, ततः प्रत्यागमने रात्रिः भवति स्म । भोजनव्यवस्था यदा कदाचित् ज्योतिषिमहोदयस्य गृहे यदा कदाचित् टोडरमहोदयेन सहैव एकः साधुः प्रेषितः आसीत् । अनेन सह विस्मरणादनुविस्मरणात् रक्षणं भवति स्म । अनेन प्रकारेण चतुर्दिनानि यावत् अयमेव दिनक्रमः प्राचलत् । दिने यावत् समयः मिलति तावत् गोस्वामिवर्याणामेव विषये वार्तालापः भवति स्म ।

भगवतः विश्वनाथस्य मन्दिरे रत्नावली आत्यन्तिक - भावविभृता जाता आसीत् । तस्मिन् दिने पं. गंगारामस्य पत्नी शकुन्तला टोडरमहोदयस्य पत्नी सरस्वती च रत्नावल्या सहैव आस्ताम् । मार्गे उभाभ्याम् अपि स्व - स्व - गृहे सदैव निवस्तुं तस्यै निवेदितम् आसीत् । तदा रत्नामात्रा एकमेव उत्तरं दत्तम् आसीत् यत् स्वामिचरणानां यथा आज्ञा भविष्यति तथैव करिष्यामि इति । तत् मम कृते सुविधाकरमेव भवति । स्वामिचरण - मुखारविन्दात् मानसपाठान् श्रोतुम् शक्ष्यति ।

विश्वनाथभगवतः मन्दिरे सम्मर्दः जातः आसीत् । भगवतः दर्शन - ग्रहणानन्तरं सर्वैः प्रसादः समर्पितः । विश्रामकर्तुं कमपि एकं प्रछपं कक्षं प्रति प्राप्ता सा । एतस्मिन्नेव समये एकः वानरः न ज्ञायते यत् कदाप्रभृति पोट्टलिकां निरीक्षमाणः जातः आसिदिति । सः अपि स्वस्थतया अधः अवतीर्णः तेन च रत्नावल्या हस्ते विद्यमानः प्रसादः गृहीत्वा । रत्नामात्रा अपि तस्मै वानराय महत्या प्रीत्या प्रसाद पोट्टलिका समर्पिता । एतत् दृष्ट्वा जनसम्मर्दः संकलितः जातः । केचित् च अपृच्छन् - ‘‘का एषा ! कुतः आगता अस्ति ?’’

तदा टोडरमहोदयस्य पत्नी सरस्वती गर्वेण उत्तरं दत्तवती - ‘‘अत्रभवती गोस्वामिवर्याणां पत्नी रत्नावली अस्ति । कः गोस्वामि ?’’ इति प्रश्नः केनापि उत्थापितः ।

अस्य उत्तरं शकुन्तलया दत्तम् - ‘‘रामचरितमानसस्य रचयितारः गोस्वामि - तुलसीदासवर्याः ।’’

जनसम्मर्दात् पुनः एका ध्वनिः आगता - ‘‘ननु तस्य पत्नी अपि अस्ति ?’’

अनन्तरं तु विभिन्नप्रकारकाः वार्ताः समारब्धाः जाताः । कश्चन उपहासं प्रदश्र्य हसन्नेव अवदत् - ‘‘अधुना ननु मानसरचयिता पत्न्या सह अत्र स्थास्यति ।’’

केनापि कथनं मण्डितम् - ‘‘एतादृशाः दाम्भिकाः जनाः रामचरितलेखनकार्ये रममाणाः भविष्यन्ति तदा संसारे कुत्रापि धर्मः अवशिष्टः नैव भविष्यति । अधुना ननु गोस्वामिवर्याणां महान्तः जनाः पूजार्चनां कुर्वन्ति ।’’

एवमेव चतुर्थः पंचमः षष्ठः .......। यस्य मनसि यथा उद्भूतं तथा तेन कथितम् ।

केनचित् कालान्तरेण जनसम्मर्दः विच्छिन्नः अभवत् । रत्नावल्या निश्चयः कृतः - ‘‘अधुना सा अत्र काश्यां एकस्मिन् दिने अपि नैव स्थास्यति ।’’

तथैव स्वामिचरणैः दुष्टानां विरोधः सोढव्यः एव भवति । मत्कारणात् पुनरपि निरर्थकतया किंवदन्त्यः प्रसारिताः भविष्यन्ति । मम निवासः अत्र उचितं नैव ।’’

हरकोमहोदयया उपवादः कृतः - ‘‘भ्रातृजाये, अपि भवता किं चिन्त्यते ?’’

सा अवदत् - ‘‘मत्कारणात् व्यर्थतया एव तेषामुपरि कर्दमोत्प्रक्षेपणं भविष्यति। अतएव अस्मदीयानां सर्वेषां इतः निर्गमनमेव उचितं भवेत् ।’’

एकं क्षणं यावत् एतत् श्रुत्वा स्तब्धता प्रसृता । सर्वेऽपि तेन वातावरणेन दुःखिताः जाताः आसन् । अतः एव सर्वे जनाः किमपि कथनं कर्तुं नाशक्नुवन्, ते मौनेन स्थिताः जाताः ।

आगामिदिने एव प्रतिगन्तुं रत्नावल्या निश्चयः कृतः । एकाकिनीं हरकोमहोदयां दृष्ट्वा रत्नावली अवदत् - ‘‘हरकोमहोदये, भवती भवत्याः गुरुवर्याणां समीपं गत्वा कथयतु - भ्रातृजाया प्रतिगन्तुं गुरुवर्याणाम् आज्ञां प्राथर्यति ।’’

हरकोमहोदया स्वप्रस्तावं प्रस्तुतवती - ‘‘भ्रातृजाये, भवती स्वमनसा विचारं करोतु यत् तेभ्यः एतादृशं कथनम् उचितं भवेत् वा न वा ?

रत्नावली अभणत् - ‘‘उचितं वा अनुचितं वा इति एतादृशः अयं विषयः नास्ति । मत्कारणात् निरर्थकतया तेषां विषये जनाः टीका - टिप्पणीः करिष्यन्ति । निन्दा - टिप्पणीः जनाः न कुर्वन्तु इत्यस्मात् कारणात् अस्माकम् इतः निर्गमनम् उचितमेव भविष्यति ।’’

हरकोमहोदया रत्नावल्याः कथनानुसारेण गोस्वामिवर्याणां समीपं गतवती । तस्याः निगर्मनान्ते एव रत्नामाता तस्याः अत्र प्रत्यागमनस्य प्रतीक्षायां स्थिता जाता । यदा हरकोमहोदया प्रत्यागता अत्र तदा अतिविलम्बः जातः आसीत् । तां दृष्ट्वा एव रत्नावली अधीरतया अपृच्छत् - ‘‘किं हरकोमहोदये, एतावान् विलम्बः किमर्थम् अभवत् ?’’

हरकोमहोदया महत्या शान्ततया उत्तरं दत्तवती - ‘‘गुरुवर्याणां समीपे जनानां महान् सम्मर्दः जातः आसीत् । ज्योतिषिमहोदयः टोडरमहोदयः चापि तत्र उपविष्टौ आस्ताम् । रामाबन्धुः अपि तत्र एव सहभागी जातः आसीत् । गरुवर्याः रामकथायाः कमपि प्रसंगम् स्वीकृत्य कथनोपकथने रममाणाः जाताः आसन् । मया अपि तत्रैव मौनं धृत्वा उपवेशनं कर्तव्यम् अभवत् । यदा प्रसंगः समाप्तः तदा मां दृष्ट्वा ते स्वयमेव अपृच्छन् - कथयतु हरकोमहोदये, भवत्याः अत्र आगमनं कथं जातम् ? ततः मया निवेदनं कृतम् - ‘‘भ्रातृजाया इतः श्वः प्रस्थानं कर्तुम् इच्छति । भवतां दर्शनस्य इच्छा वर्तते ।’’

तत् श्रुत्वा सर्वेषामपि स्व - स्व मनो मनसि गुनगुनामानं प्राचलत् । ज्योतिषिमहोदयः टोडरमहोदयः चेति उभौ अपि पूर्वघटनायाः ज्ञानं स्व - स्व पत्नी द्वारा गृहीतवन्तौ आस्ताम् । अतः ताभ्याम् उभाभ्यां मौनेन एव स्थातव्यमिति उचितमेव सम्मतम् । गोस्वामिवर्याः एव तत्कथनं श्रुत्वा अवदन् - ‘‘यथा तासाम् इच्छा स्यात् । अत्र आगन्तुकामाः तदा अधुनैव आह्वनीयाः ।’’

एतत् श्रुत्वा अहमत्र आगता अस्मि । अतः ‘‘उत्तिष्ठन्तु चलन्तु, गुरुचरणाः भवतां प्रतीक्षां कुर्वन्ति ।’’

एतत् श्रुत्वा धडधडायमानेन मनसा सा हरकोमहोदयाम् अनुगच्छन्ती च प्राचलत् । राजापुरवासिनः अपि तस्याः अनुगमनं कृत्वा प्राचलन् । तत्र प्राप्त्यनन्तरं सर्वप्रथमं रत्नामाता तेषां चरणयोः मस्तकं न्यस्य प्राणमत् । ततः सर्वे एव तस्याः अनुकरणं कृतवन्तः । सर्वे उपविष्टाः । अधुना प्रश्नः गोस्वामिवर्यैः एव उपस्थापितः कृतः - ‘‘कथयन्तु, रत्नामहोदयाः, किं कथनीयम् अस्ति ?’’

रत्नावली अंजलिं बद्ध्वा भूमिं पश्यन्ती मन्दस्वरेण उक्तवती - ‘‘स्वामिचरणाः, रामचरितमानसस्य प्रतिलिपिः प्राप्ता भवेत् तदा तस्याः आधारेण अवशिष्टं जीवनं व्यतीतं भवेत्।’’

एतत् श्रुत्वा गोस्वामितुलसीदासैः टोडरमहोदयः निर्दिष्टः - ‘टोडरमहोदय, एका प्रतिकृतिः दातव्या ।’’

टोडरमहोदयेन निर्देशनस्य अनुमोदनं कृतम् - ‘‘अस्तु, महाराजाः ।

ततः अधुना टोडरमहोदयेन रत्नामाता पृष्टा - ‘‘मातः, अत्रभवती इतः कदा प्रस्थानं करिष्यति ?’’

प्रश्नस्य उत्तरे रत्नामाता सहजतया एव अकथयत् - ‘‘श्वः प्रातः काले एव प्रस्थानस्य मनः जातं वर्तते ।’’

अधुना कः कथं कं प्रश्नं कुर्यात् ? सर्वे एव मौनेन उपविष्टाः । तां स्तब्धतां पाटयन् गोस्वामितुलसीदास - महोदयानामेव स्वरः अगुन्जत् ‘‘पुनरपि किमपि कथनीयम् अस्ति वा ?’’

रत्नावली एनं प्रश्नं श्रुत्वा सकपकायमाना जाता । ‘‘वदामि, किमपि नहि वदामि । कथनीयं तु बहु आसीत्, किं किं चिन्तनं मया रचितमासीत् विचारणार्थम् ? एतत् कथयामि, तत् कथयामि इति । परन्तु अधुना एतेषां सम्मुखे तानि सर्वाणि विलीनानि जातानि ।’’

सर्वेषां दृष्टिः रत्नामातुः मुखमुद्रां प्रति जाता आसीत् । अधुना सा किं कथयति ? रत्नावली सर्वेषां कथनानाम् एकमेव सर्वांशरूपेण कथनम् अकरोत् - ‘‘यदा अहं म्रिये तदा अन्तिमक्षणे भवन्तः मम समीपे एव भवन्तु । मम अन्तिम - संस्कारान् भवन्तः भवतां हस्ताभ्यामेव कुर्वन्तु । तदा एव मह्यं मोक्षप्राप्तिः भविष्यति ।’’

तस्याः एतादृशस्य कथनस्य केनापि आशा नैव कृता आसीत् । अधुना सर्वेषां दृष्टिः गोस्वामितुलसीदास - महोदयानां मुखाकृतिम् आश्रितवती जाता । सर्वेषां कर्णाः उत्तर श्रवणार्थं समुत्सुकाः जाताः आसन् । तत्कथनं श्रुत्वा गोस्वामितुलसीदासमहोदयैः गभीरतां गत्वा उक्तम् - ‘‘बाढम्, एवमेव भविष्यति । पुनरपि किमपि अस्ति वा ?’’

एतस्य अग्रिम - प्रश्नस्य उत्तरदानार्थं रत्नावल्या कथनीयमेव आपतितम् - ‘‘पर्याप्तमेतत्, अन्यत् किमपि नेच्छामि । एतवती एव कृपादृष्टिः भवतु ।’’

अधुना गोस्वामिवर्यैः हरकोमहोदया निर्दिष्टा - ‘‘हरकोमहोदये, अद्य भोजनं अत्रैव अस्माकं मठे सिद्धं भूयमानं वर्तते । सर्वेषाम् अत्रैव भोजनं भविष्यति ।’’

‘‘यथा आज्ञापयन्ति गुरुवर्याः ।’’ हरकोमहोदया शिरसा नत्वा उक्तवती ।

मनोमनसि एव सर्वे रत्नामाता द्वारा प्रार्थितानां वराणां प्रशंसां कुर्वाणाः स्थिताः आसन् - ‘‘साधु मातः, साधु । एकदा एव सर्व - जन्म - जन्मन्तराणां कृते सर्वमेव तया प्रार्थितं जातम् । कियत् चतुरा अस्ति एषा ?’’

रत्नामाता राजापुरं प्रति गच्छति । एषा वार्ता सर्वेषु परिजनेषु प्रसृता जाता । दैनिककार्यतः सर्वेऽपि निवृत्ताः जाताः । मार्गार्थं पिष्ट - दालादीनां व्यवस्था अभवत् । रामबन्धुः गोस्वामिवर्येभ्यः सिद्धतायाः सूचनां दत्वा प्रत्यागतः । आगमनानन्तरं सः उक्तवान् - ‘‘सर्वे एव स्व - स्व साहित्यम् उत्थापयन्तु । चलन्तु, तत्रैव मठे गोस्वामिवर्याणां दर्शनं गृहीत्वा प्रस्थानं कुर्याम ।’’

एतत् श्रुत्वा सर्वे उत्थिताः । लोलार्ककुण्डस्य मठं प्रति प्राचलन् । यदा सर्वे तत्र प्राप्तवन्तः तदा जनाः प्रतीक्षायां स्थिताः आसन् । शकुन्तला सरस्वती च अग्रे भूत्वा चरणस्पर्शं कृतवत्यौ । दक्षिणां चापि समर्पितवत्यौ । ततः सर्वैः अपि तथैव अनुकृतम् । ज्योतिषिमहोदयः टोडरमहाशयः चेति उभाभ्यां धनमुद्राः दत्ताः तथा च उत्तमोत्तम - वस्त्राणि अपि समर्पितानि । एतद् दृष्ट्वा तस्याः हृदयं द्रवीभूतम् जातम् । नेत्रयोः अश्रुधाराः प्रवहमाणाः अभवन् । मनसि संकोचं कुर्वती सा शकुन्तलां, सरस्वतीं चेति उभे प्रबोधितवती - ‘‘भगिनिमहोदये, मया एतावता धनेन किं करणीयम् ? किमपि कर्तुं न शक्यते ।’’

एतदाकर्ण्य सरस्वती न्यवेदयत् - ‘‘समये वा असमये वा एतस्य उपयोगिता निरुपायिनी भवितुं नार्हति ।’’

शकुन्तला अपि निवेदनपूर्णायाः भाषायाः प्रयोगं कृतवती - ‘‘भगिनि, एतत् सर्वं भवत्या स्वीक्रियतां रक्ष्यतां च।’’

रत्नावली अमन्यत - इदानीं नु धनस्वीकरणस्य धनरक्षणानां समीपं प्राप्तवती, तेषामासने निधाय तेषां चरणयोः स्वमस्तकं न्यस्तवती ।

एतद् दृष्ट्वा गोस्वामिवर्याः अभ्यदधत् - ‘‘रत्नामहोदयाः, एताः सर्वाः धनमुद्राः भवतीभिः नेतव्याः । अस्तु, यथासमयम् अहम् अवश्यम् आगमिष्यामि ।’’

स्वामिचरणानाम् आदेशं मत्वा ताः धनमुद्राः तया उन्निधाय गृहीताः । साम्प्रतं सर्वे गोस्वामिवर्याणंा पादस्पर्शं कुर्वन्ति स्म । तेभ्यः दक्षिणाम् अपि समर्पितां कुर्वन्ति स्म । रत्नामाता तेषां समीपे एव मौनेन स्थिता आसीत् । यदा सर्वेऽपि निवृत्ताः अभवन् तदा गोस्वामितुलसीदासमहोदयैः स्वपाश्र्वे स्थापितां रामचरितमानसस्य हस्तलिखित - प्रतिकृतिम् उन्निधाय रत्नामातुः च अग्रे कृत्चा अभिहितम् - ‘‘एनां गृह्णन्तु, रामचरितमानसस्य प्रतिकृतिम् ।’’

यथा कापि नारी स्वशिशुम् उरसि धारणार्थं स्वहस्तौ महत्या प्रीत्या अग्रे प्रसारयति तथैव रत्नामाता स्वहस्तौ अग्रे प्रासारयत् । तथा तां प्रतिकृतिं गृहीत्वा हृदये न्यदधात् । माता स्वशिशुं हृदये परिगृह्णसमये यथा आनन्दम् अनुभवति तथैव आनन्दम् अन्वभवत् सा । अधुना अनुज्ञाप्रदानरूपेण आदेशवदेव गोस्वामितुलसीदासवर्याणां मुखात् शब्दाः प्रस्फुटिताः जाताः - ‘‘जयतु जयतु सीतारामः, कथयन्तु, जयतु जयतु सीतारामः’’ इति ।

सर्वैः ज्ञातं यत् अधुना प्रस्थानार्थम् आदेशः जातः । सर्वे एव आदेशस्य पालनार्थम् उत्तररूपेण अवदन् - ‘‘जयतु जयतु सीतारामः, जयतु जयतु सीतारामः ।’’

सर्वे उत्थिताः जाताः, रामचरितमानसस्य प्रतिकृतिं रत्नामाता शिरसि अधारयत् । सर्वेऽपि रामधुनं गायन्तः प्रस्थितवन्तः । सर्वेषाम् नयनानि प्रेमाश्रुमयानि जातानि आसन् । स्थगनेन विना पूर्णः समुदायः मठात् बहिः प्रस्थितः । इदानीं सर्वे गायन्तः राजापुरं प्रति प्रयाणं कृतवन्तः ।

- - - - - - - - -