रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

डा. रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 13

रत्नावली अचिन्तयत् - भूतकालस्य घटनाः भविष्यकालस्य कृते प्रेरणारूपेण कार्यं कुर्वन्ति। यदा वयं भविष्यकालस्य हेतवे योजनानिर्माणं कुर्वाणाः भवामः तदा भूतकालस्य अनुभवकारणात् विखण्डनभयः अपि न भवति। मया ननु तेषां पथान् पल्लवितान् कर्तुं व्रतं ग्रहीतम् । साम्प्रतं तेषां दर्शनार्थं मया गन्तव्यम् एव । पश्यामि अहं, ते मम विषये कम् उपायं निर्णेष्यन्ति । हे राम ! भवान् तेषां मनसि उपविशतु । हे सीतामातः ! भवती तेषां मनः परिवर्तयतु । मह्यं शरणं ते ददतु इति एतदेव पर्याप्तम् । अहं कदापि तेषां पथि रोधनात्मकं कमपि प्रयासं नहि करिष्ये ।

रत्नामाता स्तब्धतया चिन्तयन्ती उपविष्टा अस्ति इति दृष्ट्वा हरको उक्तवती - ‘‘भवत्याः मनः अल्पमपि नहि परिवर्तितं जातम् । एकाकिनी भूत्वा अतिमौनेन किं चिन्तयन्ती स्थिता भवती?’’

स्वचिन्तनं हरकोमहोदयायै मया कथनीयमिति समुचितमेव । एनमेव विचारं कृत्वा सा अवदत् - ‘‘एतावन्तः दिवसाः विनिर्गताः अधुना अपि महाराजानां स्थान सङ्केतादिविषये किमपि ज्ञानं न प्राप्तम् अरे, इदानीं तेषां दर्शनार्थं मनः सिद्धं कारितं तदा एतादृशाः विचाराः एव चिन्तने अपि आगच्छति ।’’

हरकोमहोदया रामाबन्धोः प्रयत्नानां ज्ञानं तस्यै न्यवेदयत्। ‘‘भवत्या चिन्ता न करणीया । रामाबन्धुः इतः यावन्तः साधवः गच्छन्ति तैः सर्वैः सह सम्पर्कं साध्यति । श्रूयते यत् चित्रकूटे सोमवत्याः मेला भूयमाना वर्तते । अवसरे एतस्मिन् गुरुवर्याः तत्र अवश्यं समागमिष्यन्ति।’’

एतदाकर्ण्य रत्नावली उल्लासं प्रकटितवती - ‘‘आम्, भवती शोभनमेव अकथयत् । ते एतस्मिन्नवसरे अवश्यम् आगमिष्ययन्ति ।’’ एतत्कथनं तयोः द्वयोः मनसोः समावेशितम् अभवत् । एतावतां दिनानाम् अन्ते प्रथमवारमेव रत्नावल्याः मुखाकृत्याः पूर्णः उल्लासः अस्रवत् ।

एकस्मिन् दिने मध्याह्नावसानसमये रामाबन्धुः रत्नावल्याः गृहम् आगतवान् । आगते सति एव सम्बोधनं कृतवान् भ्रातृजाये ! रत्नावली अवगतवती यत् समयेन एतस्मिन् तस्य अत्र आगमनं कारणं विना न भवितुम् अर्हति । एतादृश्या समुत्सुकतया सा पादाहतं श्रुत्वा वलीकम् आगता । रत्नावल्याः दर्शनान्ते एव सः अवदत - ‘‘भ्रातृजाये, राम राम ।’’

राम राम ! बन्धो ! कथयतु भवान्, एतस्मिन् समये कथम् आगच्छत् ? एतत् श्रुत्वा रामाबन्धुः ज्ञातवान्- ‘‘भ्रातृजायया एतावत्शीघ्रतायां समुत्सुकतावशात् अयं प्रश्नः कृतः ।

उत्तरं तेन दत्तम् -‘‘अधुना इदानीमेव एकः साधुमहाराजः इतः प्रयागसङ्गमं प्रति अगच्छत् । तेन कथितं यत् गोस्वामिवर्याः चित्रकूटे रामघट्टे साधनारताः वर्तन्ते । सोमवतीपर्यन्तं ते तत्रैव वत्स्यन्ति । परश्वः सोमवती - मेला अपि अस्ति । तत्र चलनार्थम् अस्माभिः विलम्बः नैव कर्तव्यः ।’’

रत्नावली आनन्दविभृता अभवत् । शीघ्रतया प्रश्नः अपि तया कृतः - ‘‘तत् कदा प्रस्थानं करणीयम् ? हरकोमहोदया अपि अस्माभिः सहैव आगन्तुम् आग्रहं करोति।’’

रामाबन्धुना निर्णयः दत्तः - ‘‘अधुना विलम्बः नैव कर्तव्यः अस्माभिः । अद्य प्रातः शीघ्रमेव प्रस्थानं करणीयम् । मार्गे उपयोगार्थं कानिचनवसनानि गृहणीयानि । शीघ्रमेव प्रस्थानं भवेत्, ततः साक्षात् चित्रकूटं प्राप्य एव विश्रामं करिष्यामः । अहं चलामि । भवत्या अत्र रात्र्याः प्रत्युषसि एव पूर्णसिद्धतया स्थातव्यम् । कश्चन अश्वः वा शकटः वा सिद्धः कारणीयः वा ? किम्?’’

रत्नावली अगदत् - ‘‘भवान् एतस्मिन् चक्रे मा पततु । अहं पद्भ्यामेव चलामि। एकदिनस्य एव प्रवासः अस्ति ।’’

एतदाकर्ण्य रामाबन्धुः तस्यै धैर्यं दत्तवान् - ‘‘यदि चलनम् अशक्यं स्यात् तर्हि मार्गे चतुःषट्स्थानेषु उपवेशनं कुर्मः । मध्याह्नकालं पर्वतीयग्रामे व्यतीतं करिष्यामः । तत्रत्य अर्चकः महान् साधुपुरुषः वर्तते । अधुना अहं चलामि । हनुमतः मन्दिरे उपवेशनस्य समयः जातः विद्यते । बाढं, भ्रातृजाये, जय सीताराम ।’’

रत्नावली गमनाय आज्ञां प्रदत्तवती ‘‘जय सीताराम ।’’ इति ।

सम्पूर्णग्रामे वातावरणं प्रसृतम् यत् रत्नामाता गुरुवर्याणां दर्शनार्थं चित्रकूटं गम्यमाना अस्ति। पूर्णग्रामस्थाः शुभचिन्तकाः स्वमनांसि तया सह तत्र गमनार्थं सिद्धानि कारितवन्तः । रात्र्याः प्रत्युषसि यदा सा गृहात् प्रस्थिता तदा बहवः जनाः तत्र आगताः आसन् । पुरुषाणां स्वतन्त्रः समुदाय सिद्धः जातः आसीत् । एवमेव च स्त्रीणां भिन्नः समवायः सिद्धः अभवत् ।

सर्वे सर्वाश्च विचारयन्ति स्म । रत्नामात्रा सह प्रयाणम्, गुरुवर्याणां दर्शनम् पुनश्च सोमवतीदिने मन्दाकिन्यां स्नानाम् इति चिन्तनं प्राचलत् । सर्वेतीर्थयात्रायाः आनन्दे निमग्नाः जाताः आसन् । समुदायद्वये अपि रामधुनं गृहात् प्रस्थानसमये एव समारब्धम् ।

मध्याह्नं यावत् सर्वे श्रान्ताः जाताः । परन्तु स्वामिवर्याणां दर्शनोत्सुकतया रत्नावल्याः चरणौ अग्रे गम्यमानौ एव जातौ आस्ताम् । सा विचारमग्ना आसीत् - हे श्रीराम, अधुना भवता एतावती कृपाकरणीया यत् श्रीस्वामिचरणाः मह्यं शरणं ददतु । तारापतिः इत्यस्य पुरतः आशारज्जुं धृत्वा तया रज्ज्वा बद्धा स्थिता आसम् । हे प्रभो, अधुना अनया रज्जवा बद्धां कुरु । हे दीननाथ ........। हे दीनदयालो ! कृपां कुरु । एकः समयः आसीत् यदा स्वामिचरणेभ्यः मम दूरता क्षणमेकं यावत् असह्या भवति स्म । तस्यां रात्रौ मया सह मेलनार्थं तेषां वेगः एतादृशः तीव्रः जातः आसीत् यत् अन्यत् किमपि प्रतिभानं तेषां नाभवत् तदा । अधुना भवतां निर्गमनान्ते क्रियान् समयः व्यतीतः तथापि भवन्तः एतावत्सु दिनेषु मम कुशलक्षेमः अपि न पृष्टा । तेऽपि किं करिष्यन्ति ? अधुना तेषां मनसि श्रीरामः उषितवान् विद्यते । एते धर्मग्रन्थाः नारी इति नाम नरकद्वारम् इति घोषितवन्तः । ईश्वरप्राप्तिमार्गे नारीविषये क्रियत्यः घृणास्पदधारणाः उत्पादिताः कृताः सन्ति ? अन्यत्र तु आत्मा एकः एव इति विषयः प्रतिपादितः जातः अस्ति, एवं द्विविधमापनदण्डस्य विसङ्गतयः पुरुषेण किमर्थं न ज्ञायन्ते । एवं चिन्तयन्त्याः तस्याः गतिः काचन मन्दा जाता इति दृष्ट्वा हरकोमहोदया अभणत् - ‘‘भ्रातृजाये, कयाचित शीघ्रगत्या पदक्रमणं भवतु, पुरुषाणां समुदायः क्रियत् दूरं निर्गतः विद्यते ?’’

रत्नावली स्वपदगतिं वर्धमानां कारितवती । पर्वतीयग्रामः अग्रे आगम्यमानः अस्ति । तत्रैव स्थित्वा जनैः जलपानं क्रियते। यथा यथा ग्रामस्यसमीपम् आगमनात्परम् एवमपि अनुमतं यत्, ग्रामस्य प्रकृतिः विश्रामार्थं कस्यापि वृक्षस्य छायायां स्थिता जाता अस्ति इति ।

पर्वतीयग्रामः सम्प्राप्तः । एतस्मिन् ग्रामे गोस्वामिवर्याणां विलक्षणबुद्धेः महाप्रभावः आसीत् । सर्वे एतान् जानान्ति स्म । यदा जनैः श्रुतं यत् तेषां पत्नी तेषां समागमार्थं चित्रकूटं गच्छति तदा जनाः तस्याः दर्शनार्थं समागताः आसन् । काभिश्चित् स्त्रीभिः अग्रे भूत्वा तस्याः चरणस्पर्शः अपि कृतः । अर्चकपत्नी रत्नावत्याः कृते जलं गृहीत्वा आगता । अस्तरणं विस्तीर्य तां पटे उपावेशयत्। परन्तु रत्नावली अन्तर्मुखी भूत्वा स्थिता - ‘‘किं चिन्तयित्वा एताः मम स्वागतं कुर्वत्यः? एतदेव स्यात् यत् मया रामस्य सन्देशं दत्वा पतिः गृहात् निष्कासितः । अद्य पुत्रवियोगमपि सहे अहम् । संसारे एतस्मात् महद् दुःखम् अन्यत् किमपि भवितुं न शक्नोति । अद्य मम स्वागतं सर्वाः कुर्वन्ति, स्वामिचरणानां निमित्तम् एव ।’’

अर्चक पत्नी भोजनार्थं तां नेतुम् आगता । अवदत् - भगिनि, चलनीयं भवत्या किमपि खादनीयं पानीयं, चित्रकूटे प्राप्तिपर्यन्तम् रात्रिः भविष्यति । पुनश्च गोस्वामिवर्याणां किं ज्ञानम् यत्, भवती आगच्छति इति । अन्यथा खादनार्थं रोटिकादिकं किमपि कृत्वा अस्थापयिष्यत्।’’

अनेन प्रेमभृतवाक्येन रत्नावली आनन्दविभृता कृता । सा उत्थाय स्थिता । अर्चकपत्नी उक्तवती - ‘‘चलन्तु सर्वाः, रोटिकाद्वयस्य प्राप्तिः स्यादेव ।’’

इदानीं यावत् केचित् अन्यसबन्धिनः स्व - स्व - आप्तेष्टान् भोजनार्थं नेतुम् आगताः आसन् तत्र सर्वाः स्त्रियः स्व - स्व सम्बन्धिनां गृहं गताः । रत्नावली हरकोमहोदया च अर्चकस्य रामरत्नस्य गृहं गतवत्यौ ।

सर्वाः स्त्रियः भोजनं कृत्वा प्रत्यागताः । पुरुषाणां समूहः पूर्वमेव सिद्धतां कृत्वा उपविष्टः आसीत् । रत्नामाता, हरकोमहोदया चेति एतयोः प्रत्यागमनानन्तरं अग्रिम - यात्रारम्भः अभवत् ।

पुरुषाणां समुदायेन लोकगीतानां गायनं समारभत । स्त्रियः श्रवणस्य आनन्दम् अनुभवन्ति स्म । लोकगीतानां स्थगनान्ते रामाबन्धुः रामायणस्य तस्य प्रसङ्गस्य चर्चाम् अचर्चयत् यदा श्रीरामः चित्रकूटे समागतवान्। स्त्रीणां समुदायः समीपे आगतः, एनं च प्रसंगं श्रावयत् मार्गक्रमणम् अभवत् । ततः च तुलसीदामहाराजानां प्रसंगः उत्थापितः अभवत् । कश्चन अकथयत्- ‘‘श्रुतं वर्तते, यत् गोस्वामिवर्याः वैरागिनः जाताः सन्ति । रामस्य भजने घण्टानुघण्टां यावत् लीनाः भवन्ति ।’’

द्वितीयेन कथितम् - ‘‘पूर्वजन्मनि ते भगवातः शंकरूपेण स्थिताः स्युः । अन्यथा एतादृशे करालकलियुगे एतादृशः पुरुषः मया न दृष्टः । रामाबन्धुना स्वसमान - ध्वजः फरफरायतानः कृतः अतएव मया तेभ्यः गुरुदीक्षा गृहीता अस्ति ।’’

तेषु एकः उक्तवान् - ‘‘हं बन्धो, भवान् अपि ज्ञानी पुरुषः वर्तते’’ तथा उक्तिः अपि चलति - ‘‘वस्त्रपूतं जलं पिबेत् ज्ञानपूतो गुरुर्भवेत् ।’’

कस्यापि ध्वनिः श्रवणपथम् आगता - ‘‘बन्धो, भवता कश्चन गुरुः एवमेव न कृतः । गणपतिः इत्यस्य पितृसदृशः विद्वान् जनः येन केनापि गुरुणा स्वपुत्राय दीक्षादानं न कारयति स्म।’’

ततः कोऽपि अपृच्छत् - ‘‘बन्धो, गणपतिः इत्यनेन भवतः प्रथममेव दीक्षा गृहीता वा ? किं न वा ?’’

रामाबन्धुः अमन्यत् - किं मया प्रथममेव दीक्षा न गृहीता ? तथा मन्यताम् । तथापि द्वितीयक्रमांकस्य शिष्यः अहम् इत्यपि न न्यूनम् । पुनश्च अग्रे सः उक्तवान् - ‘‘यस्मिन् दिने गणपतिः इत्यनेन दीक्षा गृहीता तस्मिन्नेव दिने मया अपि दीक्षा गृहीता प्रथमतया वा द्वितीयतया वा किं भवति ? गुरुः नु सर्वेषां कृते समदर्शी भवति । तथैव गुरुः समभावेन एव सर्वान् पश्यति इत्येव किमर्थं न मन्यते ?’’ एतद्विषये ध्वनिः श्रवणे आगतः हं, एतदेव सत्यं वर्तते ।’’

रत्नावली एतादृशं वार्तालापं श्रुत्वा आनन्दसागरे गाहनमवगाहनं करोति स्म ।

एतादृश्याम् अतीवप्रसन्नतायां आमोद -प्रमोद - पृच्छाः कुर्वत्सु तेषु मार्गक्रमणम् अपि भवति स्म । एवं मार्गक्रमतां चलतां च तेषां सूर्यः अस्तङ्गतः । तदा रामाबन्धुना कथितम् - ‘‘मार्गक्रमणं केनचित् अधिकवेगेन भवतु। चित्रकूटः आगतः अस्ति, तत्र पश्यन्तु भवन्तः, कामदगिरिः इति पर्वतः दृश्यते ।’’

यात्रिकजनैः अपि तथा अनुमत्य कामदगिरिं प्रणामः कृतः । एतद् दृष्ट्वा सर्वाभिः स्त्रीभिः अपि तेषां सर्वेषाम् अनुकरणं कृतम् । रत्नावली अपि प्रार्थयत् -‘‘हे प्रभो, श्रीस्वामिचरणानां दर्शनं कारणीयम्, तेषां व मनसि स्थानं कारणीयं येन ते मह्यं शरणं ददतु ।’’

रात्रौ प्रथमप्रहरे विगते सति ते सर्वे चित्रकूटं प्राप्नुवन् । ततः रामघट्टेे ते प्राप्तवन्तः । तदा एव मन्दाकिन्याः प्रवाहेण सर्वेषां मनांसि आकर्षितानि अभवन् । सर्व - यात्रिक - यात्रिकाभिः श्रम परिहारार्थं मन्दाकिन्याः शीतलजलं पीतम् । कैश्चन स्नानस्य आनन्दः अपि प्राप्तः । रामाबन्धुः तुलसीदासस्वामिवर्याणाम् आश्रमं ज्ञात्वा आगतः । स्वामिवर्याः रामघट्टे एव एकस्यां गुहायां स्थिताः सन्ति इति । एनां सूचनां रत्नावल्यै दानार्थं रामाबन्धुः अत्र प्रत्यागतवान् अवदत् च ‘‘भ्रातृजाये, एतस्य एव घट्टस्य उपरितने भागे एका गुहा अस्ति । तस्यामेव महाराजाः स्थिताः सन्ति ।’’

सर्वे अमन्यन्त - ‘‘चलन्तु अधुना, तेषां दर्शनलाभः भवेदेव ।’’

रत्नावली अचिन्तयत् - ‘‘अद्यापि तेषां दर्शनग्रहणार्थं तेषां अनुमतिः प्राप्तव्या इति पुनरेका भित्ति: अवशिष्टा वर्तते ।’’

एवं विचारं कृत्वा सा अकथयत्- ‘‘बन्धो, भवान् गत्वा अस्माकम् आगमनस्य सूचनां दत्वा अस्मिन्नेव समये दर्शनग्रहणार्थम् अनुमतिं स्वीकृत्य प्रत्यागच्छतु ।’’

रामाबन्धुः तत्कर्तुं ततः निर्गतवान् ।

यदा रामाबन्धुः अत्र प्रत्यागतवान् तदा सर्वे पिप्पलवृक्षस्य अधः तस्य प्रतीक्षायाम् उपविष्टाः आसन् । रामाबन्धुः एकस्मिन् पात्रप्रसादं गृहीत्वा प्रत्यागतः ततश्च अकथयत् - ‘‘रात्रिः वर्धते, गुरुवर्याणाम् आदेशः जातः अस्ति यत् सर्वेप्रसादं स्वीकृत्य मन्दाकिनीमातुः जलं पीत्वा विश्रान्तिं कुर्वन्तु । श्रान्ताः जाताः स्युः । उपरितने राममन्दिरस्य विश्रामस्थाने सर्वेषां निवासार्थं व्यवस्था कारिता जाता । तेषां दर्शनलाभः सोमवती-अनन्तरं भविष्यति।’’

रत्नावली अपृच्छत् -‘‘भ्रातः ! भवान् मम विषये ........।’’

सः मध्ये उक्तवान् - ‘‘मया उक्तं यत् भ्रातृजाया अस्माभिः सहैव अस्ति इति । स्वामिचरणैः अस्माकं वासव्यवस्था तु कृता किन्तु, तैः उक्तं यत् इदानीं दर्शनार्थिणां सम्मर्दः अधिकः वर्तते, अतः तेषां दर्शनं तु सोमवती-अमावस्या-अनन्तरम् एव भवितुं शक्यते ।’’

रत्नावली उक्तवती - ‘‘भ्रातः ! भवान् ताराविषये न उक्तवान् खलु ?’’

गभीरः भूत्वा रामाबन्धुः अवदत् - ‘‘भ्रातृजाये ! एतद् वक्तुम् अहं साहसं न कर्तुं शक्तवान् ।’’

रत्नावली ऊहितवती यत् अहम् अत्र व्यर्थं प्रलापं कर्तुम् एव समागता । एते तु आत्मजम् अपि न चिन्तयन्ति । तस्मिन् दिने माम् मेलितुम् एते कियत् अधीराः आसन् ? इदानीं तु मम धैर्यस्य परीक्षां कुर्वन्ति । एवं ते ऊहन्ति यत् वद रत्ने ! इदानीं त्वं कथम् अनुभवसि ?

अहं कथम् अनुभूतवती स्याम् । भवन्तः तस्मिन् दिने क्रोधवशात् प्रतिगताः आसन् । अहं भवादृशी नास्मि । भवन्तः किं चिन्तयन्ति, अहम् अत्र निवसितुं समागता वा ?

नार्याः एषा एव विवशता अस्ति यत् सा आजीवनं पितुः रूपं पुत्रे पश्यन्ती भवति ।

गणपतेः माता भागवती तां चिन्तयन्तीं दृष्ट्वा उक्तवती - ‘‘भगिनि ! राजापुरवत् त्वम् अत्रापि चिन्तातुरा असि ।’’

रामाबन्धुः कथयमानः जातः - ‘‘भ्रातृजाये, पुनः कस्मिन् विचारे निमग्ना जाता भवती ? गृह्यताम् अयं प्रसादः ।’’ तया पलाशसम्पुटे प्रसादः गृहीतः । यदा सर्वे निवृत्ताः जाताः तदा ते राममन्दिरस्य घट्टे आरोहणं समारभन्त ।

यदा रत्नावली कटं विस्तीर्य तत्र लुण्लति तदा प्रातः स्वामिवर्याणां दर्शनस्य काल्पनिकं बिम्बं मनसि एव निर्मितं विलीनं च करोति । अस्मिन्नेव चिन्तने सा कदा निद्रामग्ना जाता इति तस्याः ज्ञाने अपि न आगतम् ।

मन्दिरस्य पूजार्चनादिकार्यम् आगम्यमान - रात्रितः समारभ्यते स्म । केचन जनाः मन्दिरे परिमार्जन - प्रक्षालनादिकार्यं कुर्वन्ति स्म । एतस्य शब्दं श्रुत्वा सर्वे जागृताः जाताः ।

अद्य सोमवती । अतः घट्टे बहुजनसम्मर्दः जातः आसीत् । एते जनाः अपि सम्मर्दनिमिŸोन सूर्योदयात् पूर्वमेव निवृत्ताः जाताः आसन् प्रातः कालीनकार्यात् ।

अधुना सर्वेषां लक्ष्यं जातमासीत् कामतानाथस्य दर्शनम् । सर्वेरामघट्टतः प्रस्थानं कृत्वा निर्झरमेकं पारं कृत्वा शकटस्य शाकटिकमार्गेण गत्वा कामदगिरिः इति पर्वतस्य मुखारविन्दे प्राप्तवन्तः । तत्र प्रतिष्ठितस्य भगवतः कामतानाथस्य मूर्तेः दर्शनं सर्वैः भक्तिभावेन गृहीतम् । नारिकेलफलानां समर्पण कृत्वा तथैव धूपदीपादिभिः प्रभोः पूजा - अर्चनादिकं कृतम् । ततः सर्वे कामदगिरिः इति पर्वतस्य प्रदक्षिणार्थं प्रस्थिताः अभवन् । पर्वतस्य निम्नस्तरे पदपथः अस्ति । तेन पदमार्गेण क्रमणं कृत्वा घनवनस्य मध्यभागतः परिक्रमणारम्भः अभवत् । ‘जयतु श्रीरामः जयतु जयतु श्रीरामः’, इति उद्घोषः सर्वेषां अन्तःकरणात् प्रास्फुटत् । ‘श्रीरामः’ इति ध्वनौ सर्वेपरिपूर्णतया लीनाः जाताः आसन् । इदानीं ते सर्वे तस्मिन् स्थाने आगताः यस्मिन् स्थाने तुलसीदासमहोदयैः स्वचातुर्मासकालः व्यतीतः आसाीत् । स्थानस्य रमणीयता सर्वेषां मनांसि समाकर्षितवती । सर्वे आश्रमस्य अन्तर्भागे प्रविष्टाः । अधुना अपि, केचन साधुमहात्मानः तत्र स्वधूनीनिमग्नाः भूत्वा रम्यमाणाः जाताः सन्ति इति दृष्टिपथम् आगतम् । श्रीरामनाम्नः कीर्तनं प्रचलत् आसीत् । श्रद्वालवः साधुमहात्मनां चरणस्पर्शाथम् महता उत्साहेन धावित्वा आगच्छन्तः आसन् । एतद् दृष्ट्वा रत्नावली चिन्तयन्ती आसीत् - एतेषां साधु-वैरागीणां बहु-आनन्दः अस्ति। श्रेष्ठाः जनाः एतेषां चरणस्पर्शाथम् समागच्छन्ति किन्तु एते तेषां चरणस्पर्शस्य इच्छापूरणे अपि प्रमादं कुर्वन्ति । यथा कश्चन तेषां चरणस्पर्शं कृत्वा न जाने तेषां किं वस्तु लुण्ठति । अये ! यदि कश्चन किमपि प्राप्नुयात् तर्हि स्वसाधनया एव अनेन लुण्ठनेन किमपि न प्राप्तुं शक्यते ।

किंचित् समयं यावत् विश्रामानन्तरं तस्य स्थानस्य रमणीयतां स्वमनसि स्थापयित्वा अग्रे गन्तुं प्रस्थिताः । वृद्धपिप्पलस्य परिक्रमणं कुर्वन्तः सर्वे लक्ष्मणस्य पर्वतिकां प्राप्ताः । अत्र एकं मन्दिरं निर्मितम् आसीत् । सर्वैः तत्रस्थः पूर्णानन्दः गृहीतः । ततः कामदगिरिः इति पर्वतस्य उपरितलस्य अवलोकनं कृतम् । परिक्रमायां कानिचन लघूनि मन्दिराणि निर्मितानि भवन्ति स्म । तस्य स्थानस्य आनन्दः रत्नावल्याः हृदये पूर्णरीत्या समाविष्टः जातः यत्र भगवतः रामस्य भरतस्य च समागमः जातः आसीत् । शिलायां तयोः द्वयोः चरणचिह्नानि दृष्ट्वा सा अमन्यत - ‘‘एतानि तस्य समयस्य घटनायाः संस्मरणदाने पर्याप्तानि वर्तन्ते ।’’

यदा परिक्रमा समाप्ता मदा तेषां मनस्सु निष्कर्षः समुदभवत् - ‘‘निश्चितमेव यत् परिक्रमायाः मनोहारि - दृश्यानि आत्मसन्तोषप्रदानार्थं पर्याप्तानि सन्ति ।’’

भ्रमणक्रमः प्राचलन् आसीत् । अग्रिमदिने मङ्गलवासरः आसीत् । सर्वे हनुमत्धारां प्रति अभिमुखाः जाताः। तृतीये दिने समुदायः चतुर्धाम यात्रार्थं प्रस्थितः । घनवनमध्ये पदमार्गेण चलन्तः जानकी कुण्डतः स्फटिकशिलां सन्दश्र्य अग्रे प्रस्थिताः । रत्नावली आत्मगतं चिन्तयन्ती आसीत् - श्रीरामेण सीतया सह वनवासस्य सुखं - दुःखम् अत्रैव सोढम्, किन्तु एतान् मां मेलितुम् अपि समयः नास्ति । न अवगच्छामि भवताम् इष्टदेवः भवतः एतावद् निष्ठुरं कथं कृतवान् । मार्गे साधुयात्रिकाणाम् एकः संघः अपि प्राप्तः जातः । साधु संगतिकारणेन मार्गज्ञानार्थं किमपि काठिन्यं नाभवत् । सर्वे अन्धकारस्य प्रसरन् समये सती - अनसूयायाः आश्रमे प्राप्ताः । पर्वते एकस्य साधुमहाराजस्य कुटिः आसीत्। रात्रिः अत्रैव व्यतीता करणीया । एतस्मात् विना अन्यः पर्यायः एव नोपलब्धः अभवत्। केचित् जनाः स्वेन सह पिष्टं लवणं मरीचिकां च आनीतवन्तः । मार्गे शुष्ककाष्ठानि संगृहीतानि आसन्। सती - अनसूयायाः चरणयोः दर्शनग्रहणान्ते एकवृक्षस्य अधः सर्वैः निवेशः कृतः । अग्निः प्रज्वालितः अभवत् । त्रिचतुःस्थानेषु जनाः स्वस्वगणमनुसृत्य अग्निं परितः उपविष्टाः । सर्वेषु गणेषु रोटिकाणां पाचनं प्राचलत् । सर्वे बुभुक्षिताः आसन् । प्रातः एव प्रस्थानं जातम् आसीत् । सर्वे अरण्ये रोटिकाणाम् आस्वादनस्य विपुलानन्दं गृहीतवन्तः। सर्वेनिवृत्ताः जाताः ततः लोकगीतानां स्वरः प्रस्फुटितः अभवत् । वन्यपशुभ्यः संरक्षणार्थं रात्रिं यावत् अग्निः प्रज्वालितः जातः ।

रत्नावली लोकगीतानां गाने सहभागिनी न जाता । तथापि सा एतत्स्थान विषये विस्तरेण विन्तयितुम् ऐच्छत् । अपि किं भगवान् रामः एतस्मिन्नेव स्थाने मातुः अनसूयायाः दर्शनग्रहणार्थं आगतः आसीत् वा ? अपि अत्रैव सीतामाता सतीत्वविषये अनसूयया उपदिष्टा जाता अवर्तत वा? मातेश्वरी अनसूया अस्मिन् घनारण्ये निवसति स्म । ब्रह्मा, विष्णुः, महेशः चेति एतान् बालान् कृत्वा स्वनिवासस्थाने दोलायां सा न्यमीलयत् । धरती स्वर्गः चेति एतयोः समन्वयः एतस्मिन्नेव स्थाने जातः आसीत् । अस्मिन् एव समये व्याघ्रस्य गर्जनायाः उद्घोषः अरण्यमयः जातः आसीत्। साधुमहाराजकुटीतः बहिः आगत्य यात्रिकेभ्यः धैर्यं अधारयत् - ‘‘भवद्भि: भयं न करणीयम् । अनसूयामातुः नाम्नः जपनं करणीयम् । भवतां विश्वासः तस्योपरि तिष्ठतु । आम्, यदि यस्य कस्यापि मनसि मातुः शक्तिविषये सन्देहः भवेत् तदा सः दोषः अस्मभ्यम् न देयः । यस्य मातुः विषये सन्देहः स्यात् सः अस्माकं कुट्याः अन्तः चलतु ।’’

साधुमहाराजः कुट्यां प्रविष्टः जातः । सर्वैः अग्निः तीव्रतया प्रज्वलितः कृतः आसीत् । रामाबन्धुः अकथयत् - ‘‘भवन्तः सुखेन निद्रां कुर्वन्तु । अहम् अग्निं प्रज्वलितं संरक्षयामि । व्याघ्रः अग्निं दृष्ट्वा तस्य समीपं नागच्छति। भवन्तः मा बिभ्यतु ।’’

रत्नावली चिन्तयन्ती आसीत् - अहं सिंहात् किमर्थं बिभेमि ? द्वन्द्वरूपी सिंहः मां प्रतिक्षणं हन्ति । एतस्मात् आत्मरक्षार्थम् अहं कम् अग्निं प्रज्वालयेयम् ?

बाढम्, एतादृश्यां परिस्थितौ निद्रा कुतः आगच्छेत् ? रात्रिः मातेश्वरी - अनसूयामातुः जपने व्यतीता अभवत्। प्रातः पक्षिणां कलरवः आश्रमे समागतानां स्वागतं करोति स्म । साम्प्रतं सर्वेषां मनसः व्याघ्रस्य आगमनस्य शंका समाप्ता जाता आसीत् । सर्वैः मन्दाकिन्याः कलकलायमाने प्रवाहे स्नानम् आचरितम् । वन पुष्पाणि गृहीत्वा मातेश्वरीचरणयोः सर्वैः जलं प्रवाहितम् । ततश्च सर्वे प्रस्थिताः । साधुसंन्यासिनां सः संघः अपि सहैव आसीत् । अतः वनं पारं कर्तुं काठिन्यं किमपि नाभवत् । अधुना सर्वे समतलभूप्रदेशे समागताः । चलन्तः एव जाताः । मध्याह्नः भूयमानः अभवत् । तदा कुत्रापि एकः ग्रामः आसीत् । परन्तु पर्णकुटीः प्रतिदृष्टिपातः कृतः तदा तेषां सर्वेषाम् अभावानां दृश्यं दृष्ट्वा सर्वैः अग्रे गमनस्य निश्चयः कृतः । जनानां निर्धनतां दृष्ट्वा रत्नावली अचिन्तयत् - सती - अनुसूयायाः धाम्नि एतादृशी विपन्नता। एतादृशेषु चमत्कृत्स्थानेषु एतावन्तः अभावाः तु न भवितव्याः । निर्धनता न भवितव्या । अनेन आस्था प्रभाविता भवति ।

चित्रकूटम् आगच्छतां तेषां दिवसः अपराहणं गम्यमानः अभवत् । पिप्पलवृक्षस्य छायायाम् आगत्य उपाविशन् । मेला समाप्ता जाता आसीत् । यात्रिकाः विनिर्गताः अवर्तन्त । केचित् च अवशिष्टाः अविद्यन्त । तेऽपि निर्गन्तुं सिद्वतां कुर्वन्तः आसन् । रामाबन्धुः गोस्वामिवर्याणां दर्शनग्रहणार्थं प्राचलत् । यदा प्रत्यागतः तदा तेन प्रसादः आनीतः आसीत् । प्रसादं ददानः सः अवदत् - ‘‘प्रथमं प्रसादः गृहणीयः, मन्दाकिनी मातुः शीतलं जलं पेयं, ततः भोजनस्य सिद्धता करणीया । पिष्टस्य द्विदलस्य च व्यवस्था गोस्वामिवर्यैः कृता वर्तते ।’’

सर्वैः चिन्तितं यत् - ‘‘गोस्वामिवर्याः सर्वेषां कियत् ध्यानं कुर्वन्ति ?’’

सर्वैः स्वभोजनं सिद्धं कृतम् । रत्नामाता अपि स्वस्याः कृते भोजनं सिद्धं कृतवती । यदा भोजनं सिद्धं जातं तदा रत्नावली अचिन्तयत् - अहम् एतान् मेलितुम् आगता अस्मि । मया भोजनार्थं एतेषां निमन्त्रणं करणीयम् एव । एते आगन्तारः तु नैव । अहम् एतेषां मनः सम्यक् जानामि चेदपि नैतिककत्तव्यवशात् आमन्त्रणप्रेषणेन मम किं गच्छति । सा अवदत् - ‘‘रामाबन्धुः गत्वा स्वगुरुचरणान् भोजनार्थम् अत्र आनयतु । अद्य मम हस्तेन सिद्धं भोजनं ते कुर्वन्तु । रामाबन्धुः मौनेन श्रुत्वा गतः । तस्य अत्र प्रत्यागमने विलम्बः जातः तथापि सर्वे भोजनग्रहणेन विना उपविष्टाः आसन् ।

यदा रामाबन्धुः प्रत्यागतः, तदा अतीवविलम्बः जातः आसीत् । सर्वे बुभुक्षिताः पिपासार्ताः च भूत्वा गोस्वामिवर्याणां प्रतीक्षायां मुखानि म्लानतां नीत्वा उपविष्टाः आसन् । प्रत्यागच्छन्तं रामाबन्धुम् एकाकिनं दृष्ट्वा सर्वैः ज्ञातं यत् गोस्वामिवर्याः नागताः । आशारज्ज्वा बद्धं मनः त्रुटितं जातम् । पक्षहीनं भूत्वा भूमिं पतितम् । रत्नावली अमन्यत् - ‘मूच्र्छा एव आगच्छेत्’ अस्मिन्नेव समये रामाबन्धोः स्वरः सर्वेषां श्रवणपथम् आगतः - ‘‘यदा अहं तत्र गतवान् तदा तत्र स्वामिवर्याः भोजनं कुर्वाणाः आसन् । भोजनग्रहणसमये मया कथं वक्तव्यम् ? यदा तेषां भोजनग्रहणं समाप्तं तदा मया अत्ररथा वार्ता निवेदिता तदा तैः उक्तम् - रामाभ्रातः, भवान् ताभ्यः कथयतु कस्मिन्नपि दिने निश्चयेन तासां हस्तप्रसादं गृहीष्यामि । परन्तु भ्रातः, तासां हस्तप्रसादग्रहणस्य पात्रता प्रथमं मयि अवतरतु ।’’ एतावत् कथयित्वा सः स्तब्धः जातः ।

सर्वेऽपि पुनरपि श्रवणेच्छया मौनेन स्थिताः । पुनरपि किं कथितं स्यात् गुरुवर्यैः ? इति प्रश्नः सर्वेषां मनस्सु समुतः । परन्तु सर्वे एवमपि विचारं कृत्वा शान्ताः स्थिताः - ‘‘किमपि कथितं स्यात् तदा रामाबन्धुः तत कथनेन विना कथं मौनेन तिष्ठेत् ?’’

कतिपयसमये मौनान्ते गणपतिमाता पार्वती उक्तवती चलन्तु अधुना सर्वेऽपि उत्तिष्ठन्तु । भोजनं कुर्वन्तु जलं पिबन्तु ततः निद्रां गच्छन्तु सर्वे श्रान्ताः सन्ति । रामाबन्धोः भङ्गतां गतं साहसं पुनः प्रत्यागतम् अवदत् - ‘‘उपाध्यायिनी भ्रातृजाया शोभनं कथयति, अधुना विलम्बं मा कुर्वन्तु । एतदपि किं न्यूनम् अस्ति ? अद्य नहि कस्मिन्नपि अन्यस्मिन् दिने महाराजाः यथार्थतया भ्रातृजायायाः हस्तसिद्धं भोजनग्रहणम् अवश्यं करिष्यन्ति । पश्यन्तु, अस्माकं गुरुवर्याः भ्रातृजायां महतीं मन्यन्ते ?’’ सर्वे अति - उत्साहिताः जाताः । सर्वैः रोटिकाः पुरतः गृहीताः। एतत् दृष्ट्वा रत्नावली अपि एतादृशमेव कृतवती । सर्वेषां भोजनम् आरब्धम् ।

भोजनग्रहणान्ते सर्वे राममन्दिरस्य समीपं निद्राग्रहणार्थम् अगच्छन् । रत्नावली निद्रां गच्छन्ती चिन्तयन्ती आसीत् - ‘‘इतः प्रस्थानसमये ते एकवारं राजापुरम् आगच्छन्तु इति आग्रहम् अवश्यं करिष्यामि अहम् ।’’

अद्य सर्वे विश्रामं कृत्वा यथेच्छं विश्रान्तिं ग्रहणानन्तरम् उत्थिताः आसन् । आलस्यभृतेन मनसा सर्वे स्नानं कर्तुं रामघट्टे गताः । केषांचन मनांसि परिवर्तितानि जातानि । तथा जानकीकुण्डे स्नानं करणीयमिति । तत्रस्थ - राममन्दिरस्य दर्शनं पुनः भवेत् । रत्नामातुः विचारः गृहीतः जातः । तथा ते सर्वे जानकीकुण्डं गमनार्थं सिद्धाः अभवन् ।

एतत् स्थानं प्रकृत्या स्वहस्तैः समलङ्कृतं विद्यते । मन्दाकिन्याः कलकलायमानः प्रवाहः । तीरद्वये विशालाः अतिविशालाः वृक्षाः एतादृशेन प्रकारेण स्थिताः सन्ति यत् प्रकृत्याः आनन्दग्रहणार्थं एतस्यां पृथिव्याम् अवतारः तैः गृहीतः स्यादित्येव मन्तुं शक्यते । सर्वैः अपि एतस्य स्थानस्य पूर्णानन्दः गृहीतः विद्यते । तथा राजापुरे यमुनायाः स्थानविषये नु किं कथनीयम् ? तथापि एतत् स्थानम् एतावत्सुन्दरं न भवेत् तदा गोस्वामिवर्याः नूनं तपस्यार्थं नावरीष्यन्त । नूनमेव अत्र श्रीरामस्य साक्षात् दर्शनं प्रकृतिरूपेण अद्यापि भवति ।

यदा सर्वे निवृत्ताः जाताः तदा सर्वे जानकीकुण्ड जलस्य आचमनार्थम् एकत्रिताः अभवन् । अत्र सर्वैः सहैव हस्तेन जलं गृहीत्वा आचमनं कृतम् । एतस्य कुण्डलस्य जलं अपवित्रं जातं नास्ति । तत्रैव उपविश्य कानिचन कथनानि प्राचलन् । रत्नावली अचिन्तयत्- सत्यं तु इदम् अस्ति यत् मया एतैः सह मेलनेन विना एव प्रतिगन्तव्यम् । किन्तु अहं भवताम् इव हठकत्र्री नास्मि । रत्नावली वदन्ती आसीत् - तीर्थयात्रायाम् उच्चनीचम् अस्पृश्यादिभावः यदि यत्किंचिदपि अवशिष्टः तर्हि तीर्थयात्रायाः औचित्यं नैव भवति।

एतद् चिन्तयित्वा रामाबन्धुम् उक्तवती - ‘‘भ्रातः, भवता भवतां गुरुवर्याणां पुनरेकदा दर्शनं कारणीयम् ।’’

रामाबन्धुः अभणत्- ‘‘हन्त, भवत्या एतद्विषये चिन्ता न करणीया भवत्याः अयमधिकारः केनापि नापनीयते।’’

इदानीं सर्वेजनाः उत्थिताः जाताः । सर्वेषां जनानां मनः सिद्धम् अभवत् - प्रमोदवने श्रीरामस्य दर्शनं गृहीत्वा प्रस्थानं भवेत् । एतत् श्रुत्वा अधुना सर्वेऽपि प्रमोदवनस्य रामन्दिरदर्शनं कृत्वा रामघट्टं प्रति विनिर्याताः ।

गोस्वामिवर्याणां गुहायां निवसन् एकः साधुः घट्टे एव मिलितः । एतान् दृष्ट्वा एव सः अवदत् - ‘‘अहं भवतां प्रतीक्षायाम् आसम् । सर्वेषां कृते भोजनं सिद्धम् अस्ति । चलन्तु, तत्रैव गुहायां चलेयुः ।’’

सर्वेषां आनन्दाय स्थानमेव नावशिष्टम् । सर्वे अधिकवेगेन चलन्तः गुहां प्राप्तवन्तः । तत्र गोस्वामिवर्याः एकस्मिन् आसने शान्तमुद्रया उपविष्टाः आसन् । सर्वे तेषां चरणयोः मस्तकं निधाय तान् प्राणमन् । रत्नावली अपि सर्वाभिः यथा कृतं तथैव कृतवती प्रणामम् । सर्वेतेषाम् आसनस्य अधः समीपे एव उपाविशान् । गोस्वामिवर्यैः हरकोमहोदयां निरीक्ष्य प्रश्नः कृतः - ‘‘कथयतु हरकोमहोदये, अपि सर्वं सुष्ठु वर्तते ?’’

हरको अमन्यत यत् अयं प्रश्नः भ्रातृजायायाः कृते जातः अस्ति । क्षणं यावत् स्तब्धता जाता, ततः हरकोमहोदयायाः ध्याने आगतम् - ‘‘भ्रातृजाया किमपि न वदति ।’’

इति ज्ञात्वा सा अवदत् - ‘‘भवद्भि: ज्ञायते एव यत् तारापतिः हस्तात् विनिर्गतः ।’’

तुलसीदासमहोदयाः मौनं धृतवन्तः । सभायां परिपूर्णरूपेण स्तब्धता जाता ।

‘‘रामाबन्धुः मौनं भङ्गतां नीतवान् ‘‘इदानीं भ्रातृजाया पूर्णतया एकाकिनी जाता अस्ति पाठकमहोदयाः तीर्थयात्रार्थं विनिर्गताः । एकवर्षं भूयमानं विद्यते, न प्रत्यागताः सन्ति । कः जानाति यत् ते मृताः उत जीविताः सन्ति ? इति गङ्गेश्वरस्य स्थितिः भवद्भि: ज्ञायते एव । सन्देशः प्रेषितः भवेत् तदा सः श्रीमान् आगमिष्यति ।’’

तुलसीदासमहोदयाः चिन्तनमुद्रायाम् आगताः अवदन् च - ‘‘भ्रातः यस्य यावत् देयमादेयं च भवेत् तस्य तथा दायस्य परिपूर्णान्ते मनुष्यः एकं क्षणं यावत् अत्र स्थातुं न शक्नोति । अधुना अधिगन्तव्यं यत् तारापतिः इत्यस्य एतावदेव देयम् आदेयं च आसीत् । सः एतावतामेव दिवसानाम् अतिथिः अवर्तत । अधुना अवशिष्टः विषयः अस्ति तारापतिमातुः । सा अपि रामाश्रयम् अस्मादृशमेव कुर्यात् । रामस्य विश्वासेन बिना कोऽपि अन्यः अस्मिन् संसारे महान् विश्वसनीयः नास्ति ।’’

दीर्घकालं यावत् ते शान्ताः भूत्वा पुनरपि कथनं समारब्धवन्तः । ‘‘एकं वचनं पुनरपि उच्चारयामि - अधुना अस्थिमांस प्रीतिः अस्माभिः त्यक्तव्या एव अधुना अस्माभिः रामे एव प्रीतिः कर्तव्या भवद्भ्यः अपि इत्येव उचितम्। रामः एव मनस्थाः शङ्काः दूरीकर्तुं शक्नोति ।’’

गणपति माता पार्वती दीर्घकालं यावत् मौनं धृत्वा स्थिता आसीत् । सा कथनेन विना स्थातुं नाशक्नोत् - ‘‘एतत् ननु भवद्भि: सा एव द्विरुक्तिः कृता ।’’

ततः झटिति तुलसीदासमहोदयैः उक्तम् - ‘‘अस्मिन् संसारे आस्थानां प्रदानकर्ता महामन्त्रः अयमेव एतस्मात् श्रेष्ठः मन्त्रः अन्यः कोऽपि नास्ति इति मम अभिप्रायः ।’’

सभायां पुनरपि दीर्घा शान्तता समारब्धा । यदा सर्वैः सर्वाभिः च अमन्यत यत् साम्प्रतं कस्यापि मनसि कापि शंका नावशिष्टा ।

प्रश्नः रामाबन्धुना कृतः - ‘‘गुरुवर्याः चित्रकूटस्थ - सर्व - स्थानानां दर्शनम् अभवत् । अधुना का आज्ञा अस्ति ?’’

गोस्वामिवर्याः अभ्यदधात् - ‘‘यावत्कालं भवन्तः अत्र स्थातुमिच्छन्ति तावत् तिष्ठन्तु । अत्रस्थम् आनन्दं गृह्णन्तु ।’’

रत्नावली अमन्यत् - अधुना प्रस्थानार्थम् आज्ञा गृहीतव्या इति विचारेण सा अवदत् - ‘‘स्वामिपादाः, एतस्याः दास्याः कृते का आज्ञा अस्ति ?’’

स्वामिवर्याः अवदन् - ‘‘भवत्यः राजापुरे एव तिष्ठन्तु । भवतीनां पाठशालाविषये रामाबन्धुद्वारा मया श्रुतम्। बहुमनोज्ञं कार्यं वर्तते एतत् ।’’

स्वामिपादाः, अहम् इच्छामि.......। रत्नावली कथनं स्थगितवती ।

तुलसीदासाः अवदन् - ‘‘अहो, भवतीभिः किमर्थं विरम्यते ? वदन्तु वदन्तु........।’’

रत्नावली कथनं समारब्धवती - ‘‘वदन्ति, भगवान् बुद्धः ज्ञानप्राप्त्यन्ते एकदा गृहम् आगतः आसीत् ।’’

रत्नावली किम् इच्छति इति स्वामिवर्यैः ज्ञातम् ततः एतत् चिन्तयित्वा ते अवदन् - ‘‘प्रथमं किमपि मया प्राप्तव्यम् । ततः यथा श्रीरामः इच्छति तथैव भविष्यति ।’’

सर्वैः अपि एतत् ज्ञातम् - ‘‘गोस्वामिवर्याः स्वलक्ष्यम् अधिगमनानन्तरं एव राजापुरम् आगमिष्यन्ति ।’’

अधुना दीर्घकालीनं मौनं समारब्धम् । गोस्वामिवर्यैः एव कथनीयः भागः सम्प्राप्तः - ‘‘इदानीं भवन्तःसर्वे जनाः विश्रामं गृह्णन्तु ।’’

रामाबन्धुः न्यवेदयत् - ‘‘गुरुवर्याः श्वः प्रातरेव इतः प्रस्थानकरणस्य इच्छा भवति ।’’

उत्तरम् आगच्छत् - ‘‘बाढम्, सायङ्कालीन - भोजनप्रबन्धः अत्रैव भविष्यति । आम्, रामाबन्धो, भवान् मार्गे भोजनार्थं पिष्ट - द्विदलादिकं गृहीत्वा गमनं करोतु । कुत्रापि मार्गे -. भोजनं सिद्धं कृत्वा भवन्तः खादन्तु । तथास्तु, अधुना गच्छन्तु, विश्रामं कुर्वन्तु, श्वः पुनः प्रवासगति - स्थित्यादिकं निश्चितं करणीयं भवेत् ।’’

उत्थिताः जाताः सर्वेऽपि । सर्वेऽपि चरणस्पर्शं कृतवन्तः । तदा तेषां मुखारविन्दात् एते एव शब्दाः पुनः पुनः निःसृताः अभवन् - ‘‘सीतारामः सीतारामः इति वदन्तु।’’

सायंकाले सर्वैः सहैव रत्नावली भोजनग्रहणार्थं गतवती, तथैव अत्र प्रत्यागतवती भोजनग्रहणान्ते । प्रत्युषसि एव गृहं प्रति प्रस्थानस्य पूर्वसिद्धता सम्पन्ना । प्रत्युषसि जनाः झटित्येव उत्थिताः जाताः । स्नान - प्रक्षालनादिकं कृत्वा गमनाय सिद्धाः गोस्वामिवर्याणां गुहां प्राप्तवन्तः सर्वेऽपि। गोस्वामिवर्याः भजन - पूजनादितः निवृत्ताः जायमानाः आसन् । सर्वान् दृष्ट्वा गुहायाः बहिः समागताः ते । सर्वैः चरणस्पर्शं कृत्वा आज्ञा प्रार्थिता । सर्वेषामन्ते रत्नावली तेषां चरणस्पर्शं कृत्वा अवदत् - ‘‘स्वामिपादाः, दयां कुर्वन्तु भवन्तः । भवतां स्वमार्गे बाधादायिनी अहं भवामि इति कदापि भवद्भि: न मन्तव्यम् । इदानीमहम् आनन्देन जीवनं व्यतीतं करिष्यामि भवताम् आगमनस्य च प्रतीक्षायां स्थास्यामि ।’’

एतस्य उत्तररूपेण गोस्वामिवर्याः अकथयन् - ‘‘वदन्तु सीतारामः जयतु सीतारामः जयतु जयतु सीतारामः’’ इति वदन्तु ।

सर्वेषां मुखेभ्यः समुद्भूतम् - ‘‘जयतु जयतु सीतारामः ।

सर्वेषां नेत्राणि आद्र्राणि आसन् किन्तु रत्नामातुः नेत्रे शुष्के, पूर्णशुष्के । अनन्ताकाशं पश्यन्ती आसीत् सा ।

- - - - - - - - -