रत्नावली-9 संस्कृतानुवादकः पं. गुलामदस्तगीरः
लेखकः
रामगोपाल ‘भावुकः’
संस्कृतानुवादकः
पं. गुलामदस्तगीरः मुंबई
सम्पादकः
डा. विष्णुनारायण तिवारी
रत्नावली - 9
संसारः आत्मवद् एव अन्येषां मूल्यांकनं करोति । मानवोचितं दौर्बल्यं आत्मवदेव इतरजनेषु आरोपयति । अनेन आरोपणेन सः किंचिदपि न संकुचति । हरको एवं चिन्तयन्ती आसीत् तदा एव महावीर-प्रसाद-जैनस्य आमन्त्रणम् आगतम् । तस्य पुत्रः ज्वरेण पीडितः जातः। आरात्रौ केनचित् जागरणीयम् आसीत् । अतः कः आह्वनीयः, तादृशं नाम सम्पूर्णे ग्रामे आसीत् केवलं हरको । एवं विचार्य तेन हरको आहूता । हरको भ्रातृजायातः आज्ञां स्वीकृत्य जैनस्य गृहं गतवती ।
दिनद्वयानन्तरं सा गृहं प्रत्यागतवती, अनुक्षणम् एव रत्नावली तस्याम् अभियोगं कृतवती - ‘‘हरको ! अहं भवत्याः विना व्याकुला भवामि । भवत्या सह उत्तमतया समयः व्यतीतः भवति । किन्तु भवत्याः दर्शनं दिनद्वयानन्तरं जायमानम् अस्ति ?’’
हरको स्पष्टीकृतवती- ‘‘कस्यचित् अपि दुःखं श्रुत्वा अहं तत् सोढुम् असमर्था भवामि । अहं ततः प्रतिनिवर्तयितुम् अपि न शक्तवती । रामाभ्रातुः उपचारः प्रचलति । सः अद्य स्वस्थः अस्ति । आरात्रौ जागरणीयम् भवति । गृहजनाः सम्पूर्णदिने आजीविकार्थं बहुपरिश्रमं कुर्वन्ति, रात्रौ अचेताः भूत्वा निद्रां कुर्वन्ति । रुग्णस्य समीपे कः उपविशेत् । अहम् एकाकिनी एव आरात्रौ तस्य परिचर्यां करोमि स्म । सर्वे जनाः मम धैर्यस्य, सुश्रूषायाः च बहुप्रशंसां कुर्वन्तः आसन् । अहं तु उक्तवती यत् मम एतेन चर्ममय-शरीरेण पादरक्षा-निर्माणं तु भवितुं न शक्नोति, किन्तु जैनस्य पत्नी बहु असम्यक् अस्ति । एतादृशीं वार्तां करोति यत् जनानां परस्परं मरणं - मारणं शीघ्रमेव भवतु।
रत्नावल्याः औत्सुक्यं वेगवती नदीवत् वर्धमानं जातम् - ‘‘कीदृशीं वार्तां हरको ?’’
‘‘एवमेव विना हस्तपादयोः वार्ता’’ हरको अवदत् ।
‘‘अथ किम् ? वद, अहम् अपि श्रुणुयाम्’’ रत्नावली उक्तवती ।
हरको वार्ताम् अग्रे वर्धयितुं न इच्छति स्म । कारणम् आसीत् सा वार्ता तस्याः कण्ठे ग्रासवत् अवरुद्धा जाता आसीत् । कण्ठं स्वच्छीकृत्य सा अवदत् - ‘‘त्यज भ्रातृजाये ! तव मनः दुःखितं भविष्यति । अयं संसारः अस्ति । स्वेच्छानुसारं वार्तां करोति ।’’
रत्नावली आदेशात्मकेन स्वरेण उक्तवती - ‘‘श्रावय तावत् ।’’
हरको मनसि एव पश्चात्तापं कृतवती । किमर्थम् एतस्याः पुरतः चर्चां कर्तुम् उपविष्टा। निष्ठीवनवत् एकं ग्रासं निगीर्य सा अवदत् - ‘‘तादृशीम् एव वार्तां यथा मम पतिः करोति स्म, यत् शास्त्रिवर्यैः सह मम सम्बन्धाः अवैधाः जाताः । भ्रातृजाये ! जनाः एतादृशं देवम् अपि न मुंचन्ति । ते तु स्वयम् एव न जाने कीदृशम् अशोभनीयं जल्पनं कुर्वन्ति ।’’
रत्नावली तस्याः कथनकारणात् क्रुद्धा जाता - ‘‘एकघण्टातः आरभ्य पृच्छन्ती अस्मि। प्रहेलिकावत् प्रलापयति । स्पष्टकथनेन भवत्याः मातामही दिवं गच्छति वा ? अरे स्पष्टं वदतु ।’’
सम्प्रति हरको एकेन श्वासेन तिक्त-औषध-वत् निगरन्ती उक्तवती - ‘‘भवत्याः रामाबन्धोः मेल-मिलापकं जनेभ्यः न रोचते । जनाः अस्मिन् सम्बन्धे पंकं उत्क्षिपन्ति ।
रत्नावलीं सर्पः आघ्रतवान्, अनुभूतवती यत् एषा मातृभूमिः विदीर्णा किमर्थं न भवति? सीतामातावत् अहम् अपि अस्याम् समाहिता स्याम् । किन्तु इदानीं न तु पृथिव्यां सत्यम् अवशिष्टं न आकाशे मर्यादा अवशिष्टा । कलियुगम् अस्ति घोरकलियुगम् । एतस्य अर्थः अयं तु नास्ति यत् यस्य मनसि यत् भवतु सः तदेव चिन्तयेत् । सत्यं तु इदं यत् यथा अस्माकम् आचरणं भवति तथैव तस्य चिन्तनं भविष्यति । तथैव वयं कार्यं कुर्वाणाः भविष्यामः ।
रत्नावलीं चिन्तयन्तीं दृष्ट्वा हरको तत्र बाधां जनयन्ती उक्तवती - ‘‘भ्रातृजाये ! भवती किं चिन्तयति ? भवत्या गुरुवर्यैः च अत्र पृथिव्यां नैव आगन्तव्यम् आसीत् । न जाने, कस्य जन्मनः कृतानां पापानां कारणात् भवतोः अत्र आगमनं जातम् ।’’
रत्नावली स्वपीडां प्रकटितवती - ‘‘हरको ! जन्मनः किमर्थं दूषयति ? ते कीदृशाः मनुष्याः सन्ति, येषां मनांसि एतादृशाः घृणिताः विचाराः प्रादुर्भवन्ति ? यदि कश्चन दुःखभाजनार्थम् आगच्छति तर्हि एतस्य अर्थः एवं तु नास्ति यत् अहं वासनापुत्तलिका अस्मि ?’’
स्थितिं शमनार्थं हरको तृणवत् आश्रयं प्राप्तवती - ‘‘यदि वासनायाः पुत्तलिका अभविष्यत् तर्हि गुरुवर्यान् एव किमर्थं अतर्जयिष्यत् । एतादृशी लघुवार्ता अपि जनानां मस्तिष्के न समागच्छति ।’’
श्रुत्वा रत्नावली गभीरा जाता । तारापतिना भोजनशालायां खट्पट् ध्वनिः क्रियते, तत् श्रुत्वा सा तारापतिं तर्जयन्ती प्रकोष्ठे प्रविष्टवती - ‘‘किं रे तारः ! पुत्र ! किम् उत्पातं करोति? एवम् उत्पातं न करोतु ।’’
अन्तः गत्वा पुत्रम् अंके स्वीकृतवती । गभीरतां निवारयितुं द्वित्रिवारं चुम्बितवती । सः अस्पष्ट-बाल-ध्वनिना उक्तवान् - ‘‘मातः ! दण्डं देहि, दण्डम् ..... ।’’
रत्नावली श्रुत्वा जल्पनम् आरब्धवती - ‘‘श्वसुरः दण्डं चालयिष्यसि । यदि तव पिता श्रोष्यति यत् मम पुत्रः दण्डचालनं करोति तर्हि सः मम मस्तके एव दोषमण्डनं करिष्यति । जानामि अहं तम् । अवगतम् खलु ?’’
हरको जल्पनं श्रुत्वा ताम् अवगमयन्ती उक्तवती - ‘‘भ्रातृजाये ! किमर्थं पुत्रं तर्जयति? इदानीं तु सः शिशुः एव, किमपि न अवगच्छति । भवती चिन्तां न करोतु, यदा सः प्रबुद्धः भविष्यति तदा शास्त्रिवर्याणाम् अपेक्षया न्यूनः न भविष्यति ।’’
रत्नावली सामान्या भूत्वा उक्तवती - ‘‘एवं वार्तालापेन एव मध्याह्नः सम्प्राप्तः । इदानीं पर्यन्तं निवृत्ता अपि न अभवम् । भवत्यां गते सति सम्पूर्ण समये गृहस्य कार्ये एव व्यस्ता भवामि ।’’
द्वारे रामाभ्रातुः ध्वनिः श्रुतिपथे आगता - ‘‘भ्रातृजाये !’’
रत्नावली तारापतिम् अंके निधाय अलिन्दम् आगतवती । तारापतिः अपि रामाभ्रातरं अभिज्ञातवान् आसीत् । सः तस्य अंकं गन्तुं हस्तं प्रसारितवान् । सः अवगतवान् यत् भ्रमणार्थं तु अयम् एव नेष्यति । तारा तस्य अंकं प्राप्तवान् । रत्नावली अस्मिन्नेव गुम्फने आपतिता यत् तां वार्ताम् अस्य पुरतः उपस्थापयेयम् उत न ? उपस्थापयानि चेत् कीदृशैः शब्दैः ? सा शब्दान् अन्वेष्टुं प्रयत्नं कृतवती किन्तु शब्दाः स्वस्य अस्तित्वं संरक्षितुं शनैः शनैः प्रलुप्ताः जाताः । सा कंाचित् शब्दान् बलात् अवरोध्य उक्तवती - ‘‘भवतः अत्र गमनागमनं जनेभ्यः न रोचते।’’
रामाबन्धुः एकेन एव वाक्येन अनुक्षणम् सर्वं निष्कर्षं निष्कास्य उक्तवान् - ‘‘भ्रातृजाये येषां मनांसि चौर: निवसति ते एव एतादृशीं वार्तां चिन्तयन्तः स्युः ।’’
क्षणं यावत् मौनेन स्थित्वा सः निष्कर्षं श्रावितवान् - ‘‘भ्रातृजाये ! जनाः तु भगवन्तं रामं भगवतीं सीताम् अपि न त्यक्तवन्तः । किन्तु सत्यस्य चरणौ सुदीर्घौ भवतः । अस्तु अहं गच्छामि । जयतु सीतारामः .....।’’
रत्नावली अमन्यत यत् तस्य करुणासागरं मथित्वा एते शब्दाः निःसृताः । उत्तरं दत्तवती - ‘‘जय सीतारामः .......।’’
आगामिदिनात् आरभ्य रामाबन्धुः स्वदिनचर्यायां परिवर्तनं कृतवान् । दैनिककार्येभ्यः निवृत्त्य हनुमत्मन्दिरे उपवेशनम् आयोजयति स्म । कंचित् जनं प्रेषयित्वा तारापतिम् आह्वाययति स्म । तत्रैव तं दुग्धं पाययति स्म । यदा कदा सायंकालपर्यन्तं यावत् सः स्वमातुः इच्छां न करोति तावत् तं तत्रैव स्थापयति स्म । सम्पूर्णग्रामस्य दृष्टिः अपि अत्र आसीत् एव । सर्वे आत्मावलोकनं कृतवन्तः । कदाचित् कश्चन कांचित् वार्तां तु रामाबन्धुम् न उक्तवान् ? एतत् चिन्तनं सर्वेषां मनांसि प्रचलति स्म ।
अनेन राजापुर-ग्रामवासिनः मनांसि यत् द्वन्द्वं प्रचलत् आसीत् तत् पश्चात्तापात् आत्मग्लानेः च अतिरिच्य कत्र्तव्यबोधम् अपि कारयति स्म । रत्नावली रामाबन्धुश्च स्वकार्यात् क्षुब्धौ भूत्वा आत्मोत्कर्षस्य पथि अग्रे गच्छन्तौ आस्ताम् ।
- - - - - - - - -