रत्नावली-4-संस्कृतानुवादकः पं. गुलामदस्तगीरः रामगोपाल तिवारी द्वारा क्लासिक कहानियां में हिंदी पीडीएफ

Featured Books
श्रेणी
शेयर करे

रत्नावली-4-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

पण्डित - सीताराम चतुर्वेदी धोतीधारकाः पण्डिताः इति नाम्ना प्रसिद्धाः आसन् । जनाः ‘धोतीवालेपण्डित’ इति नाम्ना एव तान् जानन्ति स्म । यतो हि सर्वे पण्डिताः धोतीधारकाः आसन्, परन्तु एते धोती इत्यस्य अर्धभागं परिदधति अर्धभागेन च अङ्गम् आवृण्वन्ति स्म । एते पण्डितमहोदयाः अन्य - पण्डितानाम् अपेक्षया भिन्नां परिधानपद्धतिम् अवलम्बितवन्तः आसन् । भगवतः शङ्करस्य नाम्ना शिष्येभ्यः दक्षिणाग्रहणार्थं प्रस्थानं कुर्वन्ति स्म एते । समीपवर्ति - विंशति - क्रोश - क्षेत्रस्य - ग्रामेषु एतेषां शिष्याः निवसन्ति स्म । काछिजातीयानां पुरोहितरूपेण एते प्रसिद्धाः आसन् । कोऽपि काछिजातीयः स्वकार्यार्थम् एतान् विहाय अन्य - पण्डित - समीपं न गच्छति स्म । अन्यजातयः तेषां प्रतिबन्धने न आसन् । यदि काछिजातीयाः जनाः पण्डितमहोदयानां दक्षिणां तेभ्यः स्वकृषिकार्यं मन्यन्ते स्म । लोलुपप्रवृत्या: एते गृहं गृहं भ्रमन्तः महाराजाः कारिताः ।

अद्य एते सप्ताष्टदिनानन्तरं स्वगृहं प्रत्यागताः आसन् । पत्नी वेदवन्ती प्रतीक्षापरा जाता आसीत् । प्रत्यागमनानन्तरं एव आयरूपणे प्राप्तधनादिविषये निरीक्षण - परीक्षण - विचारणादिभिः मार्गैः पत्न्या आपृच्छा समारब्धा । धान्य पोटलिका विमोचिता । एतस्मिन् समये पण्डितमहोदयैः बहूनि वस्तूनि आनीतानि आसन् । पण्डितान्याः कृते उपहारूपेण शाटिकापि प्राप्ता आसीत् । शाटिकां दृष्ट्वा वेदवन्ती अत्यानन्दिता जाता । मनसि तस्याः पण्डितविषये प्रेम प्रवहमाणम् अभवत् । यदा पण्डितान्याः मनसि प्रेम प्रवहमाणम् भवति तदा तस्याः नेत्रयोः उन्मत्तता अवतरति स्म । एतद् दृष्ट्वा पण्डितमहोदयाः जानन्ति स्म यत् अद्य तेषामुपरि सरस्वत्याः महती कृपा जाता अस्ति । एतादृशं वातावरणम् एकार्धदिने एव तिष्ठति स्म । आगामिदिने पुनरपि वातावरणं तप्यमानं भवति स्म । दिनद्विये दिनचतुष्टयानन्तरं वा स्थितिः एतादृशी आगच्छति यत् पण्डितमहोदयाः क्रोधान्विताः भूत्वा प्रतिज्ञां कृत्वा पुनः कदापि प्रत्यागमनं न भवेदिति उक्त्वा गृहं त्यजन्ति स्म । तुलसीमहोदयाः अपि स्मारिताः भवन्ति । इदानीम् अपि एते तथैव प्रतिज्ञां कृत्वा गृहतः निर्गताः आसन् । परन्तु पूर्ववत् शीघ्रमेव गृहं प्रत्यागतवन्तः एते ।

अद्य पत्न्याः सुन्दरता तेभ्यः पूर्णानन्दम् अयच्छत् । पितुः प्रत्यागमनवार्तां श्रुत्वा पुत्री कौशल्या समागता । पुत्रीं दृष्ट्वा ताभ्यां स्वप्रेम प्रच्छन्नं कृतम् । अधुना पण्डितमहोदयानां पूर्ववचनं समारब्धम् । तैः उक्तं च ‘‘कौशल्ये मातः अद्यतनीयजनेषु श्रद्धा एव नाशविष्टा । जनाः अतीव कृपणाः अभवन् । धर्मस्य नाम्ना अपि कृपणतां कुर्वन्ति। अरे, कृपणतारकर्तुं केन प्रतिबन्धनं क्रियते ? परन्तु धर्मस्य नाम्ना कृपणतां मा करोतु । इदानीं जनेभ्यः दान - दक्षिणा - संग्रहणार्थं किं किं नहि कथनं भवति ? कदा कदा काछिजनाः राजानः महाराजाः चेति पदेन सम्बोधिताः भवन्ति । बहवधिकतया मस्तकमथनेन तेषु काचित् आर्द्रता अवतरति । एतेषु कार्येषु ‘‘केनचित् कालान्तरेण दक्षिणां ददामि’’ इति कथनश्रवणं तु अतीव - अप्रशस्तम् । अरे, मनुष्यस्य स्वस्य अन्य - कार्याणि कथं चलन्ति? धर्मकार्ये कालान्तरेण ददामि इति न चलति तथापि एवमेव भवति । पुनश्च अत्र यजमानानां दुःखपीडाः अपि श्रवणीयाः भवन्ति ।’’

पण्डितान्या यजमानानां पक्षः गृहीतः कथितं च - ‘‘एतदेव भवतां कर्म वर्तते । एतद्विषये एव जनाः भवद्भ्यः दक्षिणाः ददति । तेषाम् उपरि अस्माकं ऋणभारः तु नास्ति ।’’

यजमानान् उद्दिश्य क्रोधः प्रकटितः कृतः पण्डितवर्यैः - ‘‘अरे, भवती किं जानाति? अद्यतनीयाः यजमानाः महान्तः चतुराः जाताः सन्ति । सर्वान् ग्रहान् दर्शयन्ति । कस्य समयः कदा आगच्छति ? सर्वग्रहाणां परिभ्रमणं कारयित्वा पश्यन्तु, ततः विवरणं ददतु । तथापि सः सन्तुष्टः न भवति । पुनश्च इच्छति सः - पण्डितवर्याः तम् उद्दिश्य एव अहोरात्रं प्रवचनं प्रचालयन्तु । जनानां सन्तुष्टीकरणम् इति क्रीडा नास्ति ।’’

ततः वेदवन्ती स्वस्य वेदपृष्ठं परिवर्तयन्ती कथितवती - ‘‘अहं सर्वं जानामि, भवन्तः मनोघटितं किमपि किमपि कथयन्तः जनान् मूढतां नयन्ति । भवन्तः मामपि मूढतां नेतुम् इच्छन्ति । परन्तु तथा कर्तुं भवतां सामथ्र्यमेव नास्ति । अधुना सर्वं त्यक्त्वा स्वकन्यां प्रति ध्यानं भवन्तः करोतु, प्रौढा जाता अस्ति । रत्नावल्याः गृहे गमनागमनं करोति एषा । प्रतिबन्धनं करोमि तदा विवदमाना भवति । एतानि प्रशस्तलक्षणानि न सन्ति ।

कौशल्या स्वविरोधकथनं श्रुत्वा ततः निर्गता । वेदवन्त्याः वेदऋचाः पुनरपि समारब्धाः । सा अकथयत् - कुत्रापि गृहं द्रष्टव्यम् । पण्डितवर्यैः उत्तरं दत्तम् । कतिपयानि गृहाणि मया दृष्टानि परन्तु कुण्डली मेलनं न भवति । आवयोः कन्या मङ्गली अस्ति । युवकोऽपि तथैव आवश्यकः ।’’ एतत् श्रुत्वा वेदवन्त्या ऋचायाः अवशिष्टः भागः पूर्णः कृतः ।

भवतां कुण्डलिनीचक्रे लालयिता एषा विपरीततां गच्छति । मया कथ्यते - ‘‘एतस्मिन् वर्षे अस्याः हस्तौ हरिद्रावर्णयुक्तौ भवेताम् ।’’

तत् श्रुत्वा पण्डित सीताराममहोदयैः ऋचायाः अशुद्धपाठे सशोधनं कृत्वा शुद्धता आनेया इति रीत्या संशोधनं कृत्वा श्रावितम् - ‘‘दीनबन्धु पाठकवत् अहं चिन्ताम् अकृत्वा किमपि कथमपि कर्तुम् नेच्छामि । अल्पः प्रकाशः दृश्यते स्वल्पज्ञः च दृश्यते ततः भवन्तः श्विताः भवन्ति । एतैः अपि कुण्डलि - मेलनं कृतम् आसीत् । परन्तु एते किमपि न जानन्ति, ततः किम् ? भवन्ति महापण्डिताः ? तथापि स्वस्य समस्यायाः समाधानं तु न कृतम् किन्तु अखिलविश्वाधिकारं गृहीत्वा समाधानं कर्तुम् उद्युक्ताः सन्ति ।’’

वेदवन्त्या कानिचन तथ्यानि प्रकटितानि - ‘‘श्रूयते यत् तेषां समीपे बहूनि कार्याणि समागच्छन्ति ।’’

पण्डितवर्याः क्रोधान्विताः भूत्वा अवदन्- ‘‘कार्यादिभिः किं भवति? जनाः किमपि न जानन्ति । यत्र सम्मर्दः तत्रैव पुनरपि गमनम् । स्वविवेकेन जनाः कार्यं न कुर्वन्ति । तथा ते कुत्र सुखिनः भवन्ति ?’’

वेदवन्ती आनन्दसागरे निमज्जती उक्तवती ‘‘स्वस्य एका आत्मजा अस्ति इति सा एतादृशी जाता, अधुना च भ्रातृपुत्र गङ्गेश्वर द्वारा सेवाम् इच्छन्ति ते । मम तु कौशल्याविषये एव चिन्ता अस्ति ।’’

पण्डितमहोदयैः निर्णयः श्रावितः- ‘‘कौशल्यामातः, कुण्डलि - मेलनेन विना मया तस्याः विवाहः नैव क्रियते । तथा कुण्डलि-मेलनं पाठकमहोदयाः नैव जानन्ति । अरे यस्य युवकस्य जन्म मूलतया अमङ्गले अभवतम् इति तेन सह विवाहं कर्तुं ते उद्यताः जाताः ।

एतत् कथनं गृहप्रवेशान्ते एव बैजूनाभिकेन श्रुतम् आसीत् कथितं च - ‘प्रणामाः महाराजाः’, पण्डितवर्यैः तस्मै आशीर्वादः दत्तः, उक्तं च ‘सदा सुखी भव’ ।

आनन्दम् अनुभवन्तः पण्डितवर्याः अवदन् - ‘‘एतत् तु भवद्भि: सत्यम् रामवाक्यं कथितं वर्तते । यदि एतत् अहम् अवदिष्यं तदा जनाः अकथयिष्यन् यत् एते पण्डितमहोदयाः पाठकविषये दाहधारणामेव प्रदर्शयन्ति ।’’

पण्डितवर्याः स्वस्य उपदेशश्रवणम् अकुर्वन् - ‘‘अरे, यस्य विषयस्य ज्ञानं न भवति तदा तत्र पदक्षेपणं कृत्वा प्रतिबन्धनं न कर्तव्यम् । एतादृशस्य कस्य महतः व्यवसायस्य हननं भवति ? अतः एव समाजे ब्राह्मणानाम् एतादृशी दशा जाता वर्तते ।’’

पं. सीताराम महोदयैः स्ववैदुष्यस्य प्रदर्शनं कृतम् - ‘‘अरे, पुत्रस्य पादौ दोलायाम् एव दृश्येते । यस्य माता पिता च बाल्यकाले एव त्यागं कृतवन्तौ तस्य किं भविष्यम् ?’’

‘‘अरे, शास्त्रस्य कथनं तैः अपि सम्मतं किं न वा ?’’ बैजूनाभिकः राजापुरस्य समाचारान् ज्ञातुम् इष्यते उक्तं च - ‘‘भवतां राजापुरे गमनागमनं चलति ।’’

पण्डितवर्यैः ज्ञातं यत् बैजूनाभिकः किम् इच्छति इति । ततः तैः उक्तम् - ‘‘तत्र मम बहवः यजमानाः वर्तन्ते । तुलसी कोऽपि साधारणः मनुष्यः नास्ति । बाबानरहरिदासस्य शिष्यः विद्यते । सः च बाल्यावस्थातः एव वैरागिसदृशं जीवनं यापयति स्म । तेन सर्वे घट्टाः पूर्वमेव अवलोकिताः विद्यन्ते । एते तु तस्य विद्वत्तया समाकृष्टाः जाताः आसन् । एतैः पुनः किमपि न दृष्टम् ।’’

बैजूनाभिकेन नवीनतया प्रसूत - किंवदन्त्याः वर्णनं समारब्धम् - ‘‘यस्यां रात्रौ तुलसी अत्र समागतः आसीत् तस्मिन् समये यमुना कथं परिपूर्णा आसीत् ? कथ्यते यत् एकं शवनयनसाधनं ततः प्रवहमाणं भूत्वा गच्छति स्म शवनयनसाधनस्य आधारेण यमुनापारम् आगतः।’’

एतत् नवीनं कथनं श्रुत्वा पण्डितमहोदयाः सत्यासत्यविषये परीक्षितुकामाः अभवन्, अपृच्छन् च - ‘‘एतत् भवते केन कथितम्?’’

तेन उत्तरितम् - ‘‘अरे, दृष्टवता एव मह्यं कथितम् एतत् । घट्टः कदा रिक्तः भवति ?’’

पण्डितान्या बैजू इत्यस्य कथनस्य समर्थनं कृतम् - ‘‘अरे, भवद्भि: शङ्का प्रकटीक्रियते । मया अपि श्रुतं यत् घट्टोपरि एकः नौकाचालकः यमुनापारं कारयितुं निषिद्धवान् । तस्मिन् समये एव एकं काष्ठं तस्य दृष्टिपथम् आगतम् । तेन नदीं कूर्दनं कृतम् । काष्ठस्य आधारेण यमुनापारम् आगतः । एतादृश्यां परिपूर्णायां यमुनायां अद्यापि तरणं कृत्वा पारं न आगतः कोऽपि । कथयन्तु भवन्तः ।’’

पण्डितवर्याः कथनं स्वीकृत्य उक्तवन्तः - ‘‘किमपि भवतु, तस्मिन् दिने तु यमुना उच्छृंखलतया परिपूर्णा जाता आसीत् इति कथनं तु सत्यमेव वर्तते ।’’

अधुना कौशल्या प्राङ्गणतः निर्गत्य पुनरपि समागतवती । बैजूमहोदयेन कथनस्य स्थगनं कृतम् अस्ति इति दृष्टवा पृष्टम् - ‘‘पण्डितमहोदयाः, राजापुरस्य भवतां शिष्याः पुनरपि किं किं कथयन्ति ?’’

पण्डितमहोदयैः वर्णनं कृतम्- ‘‘अन्यत् किं कथयन्ति ? अरे, साधवः सन्तः एव तैः प्रशस्ताः मन्यन्ते, ततः विवाहः एव किमर्थं कृतः ? मम संज्ञानेन तु एवं जातं स्यात् यत् पाठकमहोदयैः एव सः जाले पातितः स्यात् ।’’

पण्डितान्या स्वसंलापः समारब्धः - ‘‘प्रथमं तु पाठकमहोदयानां भ्रातृजाया महता गर्वेण चलति स्म । यं पश्यति स्म सा तस्य पुरतः जामातुः महिमानं गायति स्म । महान् विद्वान् अस्ति । अतीवसज्जनः युवकः । अधुना किमर्थं प्ररोदिति अखण्डतया । अधुना कथयन्ती परिभ्रमति यत् पुत्री, जामाता चेति एतयोः उपरि जनानां कुदृष्टिपातः जातः अस्ति ।’’

अधुना पुनरपि बैजूनाभिकेन इतोऽपि अन्यत् कथितम् यत् - ‘‘चैबेमहाराजाः, भवतां मनसा सह मम मनसः मेलनं जातं वर्तते । अतएव एतत् कथनं प्रस्तूयते मया । एतत् कथनं मया अधुनापर्यन्तं कुत्रापि न प्रस्तौतम् । एवं जातम्, तस्यां रात्रौ शौचार्थं ग्रामात् बहिः गतवान् आसम् । विद्युत् द्योतते स्म । एकः मनुष्यः विद्युतः प्रकाशे मया दृष्टः । मया अनुमतं यत् सः कदाचित् भूतः पिशाचः प्रेतः वा स्यात् । कोऽपि चौर: वा स्यात् । एतादृशं विचारं कृत्वा अहं भयग्रस्तः जातः आसम् । तावत्पर्यन्तं सः मनुष्यः पाठकमहोदयानां गृहपर्यन्तं यावत् गतः । विद्युतः प्रकाशे एका रज्जुः पाठकमहोदयानां गृहभित्तौ लम्बिता, सः मनुष्यः तत्र आरोहति इति मया दृष्टम् । मम शरीरं तु स्वेदमयं जातम् । कोऽपि भूतप्रेतः पिशाचः एव अस्ति इति मया अनुमतम् । अहं शीघ्रगत्या एव प्रत्यागतवान् ।’’

पण्डितानी कथितवती - ‘‘रज्जुः केन लम्बिता कृता स्यात् ?’’

कथनं पण्डितवरैः अभ्यवर्धन्त - ‘‘किं कथनीयं सः सर्पादिकः स्यात् । तद्धृत्वा तुलसी समारूढः स्यात् । अरे, एतादृश्यां स्थित्यां मनुष्यः अन्धः एव भवति ।’’

बैजूमहोदयेन कथनस्य रहस्यं व्यक्तं दृष्ट्वा कथितम् - ‘‘एतदेव स्यात् । मया अपि तत् सर्पसदृशम् एव अनुमतम् ।

पण्डितानी अमन्यत - ‘‘एतादृशी आश्चर्यजनकघटना अद्य पर्यन्तमपि न घटिता, न च केनापि श्रुता ।’’

अधुना पण्डितानी वेदवन्ती एतत्कथनस्य प्रचारार्थं प्रतिवेशिगृहेषु गमनार्थं सिद्धा भूत्वा उत्थिता । पण्डितमहोदयाः तस्याः रोधनं कर्तुम् नाशक्नुवन् । एतैः पण्डितवरैः अवगतः यत् यावत् एषा पण्डितानी तां वार्तां गृहे गृहे कथयित्वा नागमिष्यति तावत् तस्याः रोटिकापचनं नैव भविष्यति ।

- - - - - - - - -