रत्नावली-संस्कृतानुवादकः पं.गुलामदस्तगीरः

(19)
  • 129.6k
  • 5
  • 38.6k

ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः।

Full Novel

1

रत्नावली- 1 - संस्कृतानुवादकः पं.गुलामदस्तगीरः

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी सम्पादकीयम् ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः। ‘रत्नावली’ उपान्यासस्य उद्देशः अस्ति सांसारिकजीवनात् वैराग्यं प्राप्तवतः रामभक्तस्य गोस्वामितुलसीदासवर्यस्य पत्न्याः चरित्र-चित्रणम्। अस्मिन् संसारे त्रिविधं दुःखं वर्तते - आधिदैविकम्, आधिभौतिकम्, आध्यात्मिकम् च। एतेषु दुःखेषु एव संघर्षं कुर्वन्तः केचन महत् कार्यं सम्पादयन्ति तेषां च प्रत्यक्षं ...और पढ़े

2

रत्नावली-2-संस्कृतानुवादकः पं.गुलामदस्तगीरः

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी - 2 अद्यावधिः कति दिवसाः व्यतीताः स्वामिचरणानां निर्गमनान्ते ? तैः मम विषये तु नहि, मुन्ना इति स्वात्मजस्य अपि चिन्ता न कृता । एतादृशः निर्मोही कोऽपि भवति वा ? ते चिन्तयिष्यन्ति अहं तेषां सानिध्ये नास्मि, ततः किं चिन्तनम् ? मुन्ना इति आत्मजः तु अस्ति एव। नारी एका एतादृशी लता अस्ति या वृक्षाधारेण एव आरोहणं करोति, अन्यथा पृथिव्याः उपरि एव लुण्ठनं करोति । वयं नार्यः अनेन प्रकारेण निर्बलाः भूत्वा स्थातुं न शक्नुमः। नारीणां बाल्यकाले, मातृपित्रोः आलम्बः, युवावस्थायां पत्युः आश्रयः, वृद्धावस्थायां च पुत्रस्य आधारः, अनेनैव ...और पढ़े

3

रत्नावली-3-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी - 3 जामाता वैराग्यं स्वीकृतवान् इति यदा दीनबन्धुपाठकमहोदयैः श्रुतं तदाप्रभृति ते अपि मनसा पूर्णाः विरागिणः जाताः आसन् । गृहस्थावस्थायां च मोहः तेषां नावशिष्टः आसीत् । तेषां पत्नी बहुपूर्वम् एव स्वर्गस्था जाता आसीत् । भ्रातृजाया, भ्रातुः पुत्रः गङ्गेश्वरः, गङ्गेश्वरस्य पत्नी शान्तिः, रत्नावली, तस्याः पुत्रः तारापतिः इत्यादीनां गृहसदस्यानां भारः न्यूनः नैव आसीत् । गृहचालनस्य दृष्टिमनुसृत्य मनसा विरागिणः भूत्वा अपि पाण्डित्य - वृत्ति - त्यागं कर्तुं न सिद्धाः जाताः आसन् । गृहं त्यक्त्वा संन्यासग्रहणार्थंम् अस्याः विरोधः भवति स्म। सम्पूर्णे दिवसे एतस्याः विद्रोहिण्याः कन्यायाः विचारधाराम् आश्रित्य तर्काः ...और पढ़े

4

रत्नावली-4-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी पण्डित सीताराम चतुर्वेदी धोतीधारकाः पण्डिताः इति नाम्ना प्रसिद्धाः आसन् । जनाः ‘धोतीवालेपण्डित’ इति नाम्ना एव तान् जानन्ति स्म । यतो हि सर्वे पण्डिताः धोतीधारकाः आसन्, परन्तु एते धोती इत्यस्य अर्धभागं परिदधति अर्धभागेन च अङ्गम् आवृण्वन्ति स्म । एते पण्डितमहोदयाः अन्य - पण्डितानाम् अपेक्षया भिन्नां परिधानपद्धतिम् अवलम्बितवन्तः आसन् । भगवतः शङ्करस्य नाम्ना शिष्येभ्यः दक्षिणाग्रहणार्थं प्रस्थानं कुर्वन्ति स्म एते । समीपवर्ति - विंशति - क्रोश - क्षेत्रस्य - ग्रामेषु एतेषां शिष्याः निवसन्ति स्म । काछिजातीयानां पुरोहितरूपेण एते प्रसिद्धाः आसन् । कोऽपि काछिजातीयः स्वकार्यार्थम् एतान् विहाय अन्य - ...और पढ़े

5

रत्नावली-5-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - मनुष्यस्य सहनशक्तिः विचारजागरणेन अभिवृद्धा भवति । प्रत्येक - वेदनारम्भः असह्यः भवति । शनैः शनैः च सा वेदना सह्या भवति । वेदनाभिः सहनशक्तिः अभिवृद्धा भवति, एवमेव अनेन प्रकारेण मनुष्यस्य अनन्त - आत्मविश्वासः अपि अभिवर्धमानः तिष्ठति । जीवनविषये आस्थाः गभीराः जायन्ते । इति चिन्तयन्तः पं. दीनबन्धु पाठक महोदयाः कतिपयदिनेषु निश्चिन्तः जाताः आसन् । शनैः शनैः चिन्तनेन असह्या पीडा सह्या जाता आसीत् । रत्नावली स्वपराभवे अपि हासस्य हास्यकरणस्य वा अध्ययनं कुर्वती अतिष्ठत् । तया ज्ञातम् आसीत् यत् अधुना तस्याः हासः एव समाजसम्मुखे विजयस्य कार्यं करिष्यति ...और पढ़े

6

रत्नावली-6-संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. तिवारी रत्नावली - 6 तारापतेः कारणात् रत्नावल्याः मनः अरमत् । तारापतिः स्फुटतया वदति स्म । गृहे स्थिताः सर्वे जनाः तस्य क्रीडानाम् आनन्दम् अनुभवन्ति स्म । मातामहाः तं गृहीत्वा ग्रामे संचरन्ति स्म । रत्नावल्या स्वसंसारस्य सर्वाः आशाः पुत्रस्य उपरि स्थिराः कृताः । तस्य अस्तित्वं मातुलस्य गृहे नहि स्वगृहे एव शेषं स्थिरं भवितुं शक्नोति। सा अचिन्तयत् - ‘‘अद्य तारापतिः बालकः अस्ति सः श्वः युवकः भविष्यति । भ्रातृजाया च अद्य आत्मीयतां प्रदर्शयति । कः जानाति यत् श्वः कस्य व्यवहारः कथं परिवर्तितः भवेत् ? पुनश्च सम्पूर्णे जीवने मादृशी भगिनी ...और पढ़े

7

रत्नावली-7 संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली 7 नौका राजपुर - घट्टे प्राप्ता । घट्टे केचित् बालकाः स्थिताः आसन् । रत्नामातरं दृष्ट्वा ‘‘माता आगता, माता आगता’’ इति उद्घोषणं ते उच्चैः अकुर्वन् । रत्नामाता नौकातः अवातरत् । एकेन बालकेन तारापतिः गृहीतः। गणपतिः मातुः वस्तूनि गृहीतवान् । गृहं यमुनातीरे एव आसीत् । घट्टतः उच्चस्तरे गृहं रचितम् आसीत् । येन यमुनायाः तीव्रमहापूरवेगात् संरक्षितं तद् भवेत् । सर्वे गृहम् आगताः । शास्त्रिकालात् एव गृहकार्ये एका महिला सहायम् करोति स्म । तस्याः नाम आसीत् हरकोमहोदया । हरकोमहोदयातः सन्तानलाभः नाभवत् । अतः तस्याः पतिः जनकू इत्यनेन हरकोमहोदयायाः ...और पढ़े

8

रत्नावली-8 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी - 8 प्रतिदिनानुसारं रत्नावली अद्यापि समयेन एव उत्थिता । तया स्वदिनचर्या गोस्वामिवदेव अनुचालिता अवर्तत । स्नान - ध्यानादिषु कापि विघ्नबाधा न भवति स्म । वाल्मीकिरामायणपाठः, रामनाम - माला इति एतदेव दैनिक - जीवन - क्रमे समागतम् अविद्यत । यदा कार्यनिवृत्ता भवति स्म तदा तारापतिः उत्थितः भवति स्म । अतः तस्य निर्वहणेन समयः व्यतीतः अवर्तत । धनिया आगता आसीत् । पात्रं गृहीत्वा जलम् आनेतुं सा नदीं गता । गंगेश्वरः प्रतिदिनं प्रस्थानार्थं वदति स्म । परन्तु भगिनी मनसा दुःखिता भवति इति ज्ञात्वा सः पुनः तिष्ठति ...और पढ़े

9

रत्नावली-9 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-9 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 9 संसारः आत्मवद् एव अन्येषां मूल्यांकनं करोति । मानवोचितं दौर्बल्यं आत्मवदेव इतरजनेषु आरोपयति । अनेन आरोपणेन सः किंचिदपि न संकुचति । हरको एवं चिन्तयन्ती आसीत् तदा एव महावीर-प्रसाद-जैनस्य आमन्त्रणम् आगतम् । तस्य पुत्रः ज्वरेण पीडितः जातः। आरात्रौ केनचित् जागरणीयम् आसीत् । अतः कः आह्वनीयः, तादृशं नाम सम्पूर्णे ग्रामे आसीत् केवलं हरको । एवं विचार्य तेन हरको आहूता । हरको भ्रातृजायातः आज्ञां स्वीकृत्य जैनस्य गृहं गतवती । दिनद्वयानन्तरं सा गृहं प्रत्यागतवती, अनुक्षणम् एव रत्नावली तस्याम् अभियोगं कृतवती - ‘‘हरको ...और पढ़े

10

रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली-10 जीवने कानिचन कार्याणि क्रीडावदेव आनन्दं ददति । एवं चिन्तयित्वा रत्नावली पठनेन - पाठनेन च क्रीडावदेव एतादृशमेव आनन्दं अनुभवति स्म । शास्त्रिवर्याणां प्रथमः शिष्यः गणपतिः इत्यस्य पठन - पाठनस्य दायित्वं स्वहस्ते ग्रहणेन आनन्दानुभूतीः सा अगृह्णात् । तस्य पिता तस्य विधिवदध्ययनं सम्पादयितुं गमनागमनम् अत्र अकरोत् । कतिपय दिनेषु सा एतस्मिन् चिन्तने निमग्ना जाता यत् किं प्रकारकम् अध्ययनं तया समारब्धव्यम् ? परन्तु सर्वप्रथमा समस्या एषा उपस्थिता यत् शिक्षा दीक्षा इति एतत् कार्यं कथं समारब्धव्यम् ? प्राचीन- तथ्यानाम् आकर्षणम् इति विषये किमपि अप्रशस्तं नास्ति । ...और पढ़े

11

रत्नावली-11 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-11 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 11 राजापुर - ग्रामः यमुनातीरे स्थितः वर्तते, रत्नावल्याः गृहं यमुनातटे अस्ति । गृहमुखद्वारम् अभियमुनाम् आसीत् । गृहात् निर्मगमनानन्तरं एव दृश्यते यमुनाप्रवाहः । विपुलधान्यदा मृतिका, बहुसस्यदायिनी विद्यते । वसन्तस्य सुवासी समयः समाप्तः । ऋतोः परिवर्तनात् जनाः रुग्णतां गम्यमानाः अभवन् । परस्परं स्पर्शनेन यथा रुग्णता प्रसरति तथैव रुग्णता यावद् ग्रामं प्रसृताः । हरकोमहोदया रामाबन्धुश्च पूर्णं ग्रामं यावत् सेवाकार्याय न्यमज्जताम्। रात्रौ तारापतिः बहु अक्षीणत् । तं शमयन्ती रत्नावली रोदनमुखी अभवत् । तथापि सः नाशाम्यत् । विलपन् एव सः आसीत् । उषःकाले ...और पढ़े

12

रत्नावली-12 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-12 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. तिवारी रत्नावली - 12 आस्थासु अनास्थासु च युगानुयुगे संघर्षः प्रचलन् समागच्छति । विजयश्रीः यदा कदा आस्थानां अनास्था जाता वर्तते । आस्थाहीन - मानवः जनैः परिभ्रान्तः इति मन्यते । सः यस्मिन् चिन्तने स्वम् आत्मासात् कुर्वन् तिष्ठति तस्य तस्मिन् आत्मविश्वासः पर्वतसदृशः अचलः अविचलः च स्थितः भवति । आस्थायुक्ततः भूतलस्य सर्वाणि तथ्यानि स्वतर्कानुभूतिमाध्यमेन क्षुरित्वा सः उत्क्षिपति । एतेषु सर्वेषु तथ्येषु तस्य किंचन किमपि दर्शनम् अवश्यंभावेन भवति । रामाबन्धुः सम्पूर्णरात्रौ एवमेव चिन्तयन् आसीत् । रात्रिं यावत् रत्नावली प्रतिक्षणम् एकमेव विचारं कुर्वती स्थिता यत् कस्य रामस्य द्विधाभावं ...और पढ़े

13

रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 13 रत्नावली अचिन्तयत् - भूतकालस्य घटनाः भविष्यकालस्य कृते प्रेरणारूपेण कार्यं कुर्वन्ति। यदा वयं भविष्यकालस्य हेतवे योजनानिर्माणं कुर्वाणाः भवामः तदा भूतकालस्य अनुभवकारणात् विखण्डनभयः अपि न भवति। मया ननु तेषां पथान् पल्लवितान् कर्तुं व्रतं ग्रहीतम् । साम्प्रतं तेषां दर्शनार्थं मया गन्तव्यम् एव । पश्यामि अहं, ते मम विषये कम् उपायं निर्णेष्यन्ति । हे राम ! भवान् तेषां मनसि उपविशतु । हे सीतामातः ! भवती तेषां मनः परिवर्तयतु । मह्यं शरणं ते ददतु इति एतदेव पर्याप्तम् । अहं कदापि तेषां पथि रोधनात्मकं ...और पढ़े

14

रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 14 होलिका पावनपर्व भवति तदा तस्मिन् पर्वणि वयं स्वयं होलिकायां लिप्ताः न भवामः, तथापि येन केन प्रकारेण वर्णच्छटाः अस्माकम् उपरि पतनेन विना न तिष्ठन्ति । एवं चिन्तयन्ती हरकोमहोदया स्वपतिविषये विवदमाना भूत्वा रत्नावलिम् अवदत् - भ्रातृजाये, तत् पश्यतु, अद्य सः मम पतिः मम मार्गे व्यवधानं कृत्वा अवस्थितः जातः, अकथयत् च - गरिष्ठे, अधुना लघिष्ठया मम मनः भृतं जातं वर्तते, ततः भवती एवं करोतु, या लघिष्ठा अस्ति सा गुरुपत्नीं प्रति प्रेषिता भवतु, भवती पुनः गृहम् आगत्य निवासं करोतु । तया एव ...और पढ़े

15

रत्नावली-15 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-15 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 15 यदा यदा सोमवती - अवसरः भवति तदा तदा रत्नावली स्थूलशरीरेण ननु राजापुरे भूत्वा तिष्ठति स्म । परन्तु सूक्ष्मशरीरेण सा चित्रकूट - दर्शने रममाणा भवति स्म । राजापुरे स्थित्वा अपि तस्याः नयनयोः पुरस्तात् । चित्रकूट - दृश्यानि दूरे न तिष्ठन्ति स्म । पाठन - पठनक्रमः स्थगितः न जातः आसीत् । छात्राः पठनार्थम् आगच्छन्ति स्म । तेन दान - दक्षिणा - प्राप्तिः चलति स्म । येन जीवननिर्वहणं भवति स्म । गणपतिः इत्यस्य अध्ययनं पर्याप्तं जातम् आसीत् । सः ग्रामस्य प्रतिष्ठिता ...और पढ़े

16

रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 16 राजाघट्टतः गोस्वामिवर्यान् अनुज्ञाय प्रत्यागताः आसन् जनाः । तस्माद् दिनात् एव तेषां मनसि काशीयात्राकरणीया इति विचारः पुनः पुनः चलति स्म । यदा यदा द्वि - त्रिवृद्धजनानां मेलनं भवेत् तदा तदा अपि तीर्थयात्रा करणीया इति योजना - सिद्धीकरणे चर्चा चलति स्म तेषाम् । गणपतिः एतस्यां योजनायां विश्ष्टिां भूमिकां निर्वहति स्म । केचित् जनाः सहैव चलनार्थं प्रेरिताः तेन क्रियन्ते स्म । शनैः शनैः केषांचन जनानां मनांसि तीर्थयात्राकर्तुं सिद्धानि जातानि । अधुना रत्नामातुः मनः सिद्धीकरणस्य एव कार्यम् अवशिष्टम् आसीत् । रत्नावली अधुना रत्नामाता ...और पढ़े

17

रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 17 कदा कदा जीवने आनन्दस्य अनन्त - सम्भावनाः दृश्यमानाः भवन्ति । तदा पूर्वतनीयाः सर्वे आघाताः परिपूर्णतां गच्छन्ति । युगानुयुगं यावत् जीवनाय इच्छा भवति । यद् जीवनम् अधिक्षिप्तं भवति स्म तदेव प्रशंसनीयं भवति । शिरसि रामचरितमानसस्य प्रतिकृतिं संस्थाप्य सर्वैः अपि प्रवासिभिः सह सा चलन्ती गच्छति स्म तथैव च एनेन प्रकारेण किं किं चिन्तनं कुर्वती अपि पदक्रमणं करोति स्म इति न ज्ञायते । रामचरितमानसस्य प्रतिलिपिः सर्वेऽपि राजापुरवासिनः यथाक्रमं शिरसि धारयित्वा मार्ग - क्रमणं कुर्वाणाः आसन् । सर्वेऽपि यावन्मार्गं तावत् एतस्यामेव प्रतीक्षायाम् ...और पढ़े

18

रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-18 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः विष्णुनारायण तिवारी रत्नावली - 18 रामचरितमानसस्य कथाः जनानां चर्चा विषयाः जाताः आसन् । परिसरीयाः जनाः चर्चासु सहभागग्रहणार्थं रत्नावल्याः समीपं समागच्छन् । प्रातः कालतः सायंकालपर्यन्तं यावत् आगच्छतां निर्गच्छतां च जनानां अखण्डावलिः एव चलति स्म । प्रातः काले सायंकाले च मानसस्य पाठः प्राचलत् । मध्यान्तरे मानसस्य प्रसंगानां चर्चा चलति स्म इत्येव नहि जनाः भोजन - पानादिसमये अपि चर्चां कुर्वन्तः अतिष्ठन् । गृहे गृहे अपि अयमेव चर्चाविषयः जातः आसीत् । गृहे स्थिताः जनाः यदा संलापं कुर्वन्ति स्म तदा अपि एषा एव चर्चा, पुनश्च कोऽपि अतिथिः आगताः भवेत् ...और पढ़े

19

रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः - अंतिम भाग

रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 19 वृद्धावस्थाम् प्राप्त्यनन्तरं ज्ञानिजनाः विचारं कुर्वन्ति यत् ते मृत्योः सन्निकटे सन्ति । अनेन ते दुःखिताः न भवन्ति । अन्ततः जर्जरशरीरात् मुक्तेः अन्तिमोपायः मृत्युः एव अस्ति इत्येतत् चिरसत्यं ज्ञात्वा ते खिन्नाः अपि नहि भवन्ति प्रत्युत अनेन तेषाम् उत्साहवर्धनमेव भवति। मृत्युविषये चिन्तनक्रमः रत्नामातुः बहुदिनेभ्यः पूर्वतः समारब्धः जातः आसीत्। मृत्युविषये तस्याः मानसिकी सिद्धता पूर्णतामेव गता । सा दिनानुदिनं शक्तिहीनतामेव अनुगच्छति स्म । समयेन अपि सर्वेषाम् एव पात्राणां वयसि परिवर्तनम् आनीतम् आसीत् । हरकोमहोदयायाः शरीरं अपि जर्जरं जातम् । गणपतिः षष्टि - ...और पढ़े

अन्य रसप्रद विकल्प