अव्यक्तोपनिषत्

  • 6.2k
  • 2
  • 3.3k

अव्यक्तोपनिषत् (अव्यक्तनृसिंहोपनिषत्)(सामवेदीया)स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहंब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ (सृष्टेः पुरा निर्विशेषब्रह्मस्थितिः) हरिः ॐ । पुरा किलेदं न किञ्चन्नासीन्न द्यौर्नान्तरिक्षंन पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपंरूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् ।(परमेष्ठिप्रादुभविः)तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् ।तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः ।तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत ।तदण्डमभूधैमम् । तत्परिणममानमभूत् । ततःपरमेष्ठी व्यजायत ।(परमेष्ठिनः स्वकृत्यजिज्ञासा)सोऽभिजिज्ञासत किं मे कुलं किं मेकृत्यमिति । तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापतेत्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तंयस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति ।साब्रवीदविज्ञेयं हि तत्सौम्य