रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः - अंतिम भाग

  • 7.3k
  • 2
  • 1.8k

रत्नावली-19 अन्त संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 19 वृद्धावस्थाम् प्राप्त्यनन्तरं ज्ञानिजनाः विचारं कुर्वन्ति यत् ते मृत्योः सन्निकटे सन्ति । अनेन ते दुःखिताः न भवन्ति । अन्ततः जर्जरशरीरात् मुक्तेः अन्तिमोपायः मृत्युः एव अस्ति इत्येतत् चिरसत्यं ज्ञात्वा ते खिन्नाः अपि नहि भवन्ति प्रत्युत अनेन तेषाम् उत्साहवर्धनमेव भवति। मृत्युविषये चिन्तनक्रमः रत्नामातुः बहुदिनेभ्यः पूर्वतः समारब्धः जातः आसीत्। मृत्युविषये तस्याः मानसिकी सिद्धता पूर्णतामेव गता । सा दिनानुदिनं शक्तिहीनतामेव अनुगच्छति स्म । समयेन अपि सर्वेषाम् एव पात्राणां वयसि परिवर्तनम् आनीतम् आसीत् । हरकोमहोदयायाः शरीरं अपि जर्जरं जातम् । गणपतिः षष्टि -