रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.7k
  • 1
  • 1.9k

रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 14 होलिका पावनपर्व भवति तदा तस्मिन् पर्वणि वयं स्वयं होलिकायां लिप्ताः न भवामः, तथापि येन केन प्रकारेण वर्णच्छटाः अस्माकम् उपरि पतनेन विना न तिष्ठन्ति । एवं चिन्तयन्ती हरकोमहोदया स्वपतिविषये विवदमाना भूत्वा रत्नावलिम् अवदत् - भ्रातृजाये, तत् पश्यतु, अद्य सः मम पतिः मम मार्गे व्यवधानं कृत्वा अवस्थितः जातः, अकथयत् च - गरिष्ठे, अधुना लघिष्ठया मम मनः भृतं जातं वर्तते, ततः भवती एवं करोतु, या लघिष्ठा अस्ति सा गुरुपत्नीं प्रति प्रेषिता भवतु, भवती पुनः गृहम् आगत्य निवासं करोतु । तया एव