रत्नावली-12 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.7k
  • 1
  • 1.8k

रत्नावली-12 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 12 आस्थासु अनास्थासु च युगानुयुगे संघर्षः प्रचलन् समागच्छति । विजयश्रीः यदा कदा आस्थानां अनास्था जाता वर्तते । आस्थाहीन - मानवः जनैः परिभ्रान्तः इति मन्यते । सः यस्मिन् चिन्तने स्वम् आत्मासात् कुर्वन् तिष्ठति तस्य तस्मिन् आत्मविश्वासः पर्वतसदृशः अचलः अविचलः च स्थितः भवति । आस्थायुक्ततः भूतलस्य सर्वाणि तथ्यानि स्वतर्कानुभूतिमाध्यमेन क्षुरित्वा सः उत्क्षिपति । एतेषु सर्वेषु तथ्येषु तस्य किंचन किमपि दर्शनम् अवश्यंभावेन भवति । रामाबन्धुः सम्पूर्णरात्रौ एवमेव चिन्तयन् आसीत् । रात्रिं यावत् रत्नावली प्रतिक्षणम् एकमेव विचारं कुर्वती स्थिता यत् कस्य रामस्य द्विधाभावं