रत्नावली-11 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 7k
  • 1
  • 1.8k

रत्नावली-11 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 11 राजापुर - ग्रामः यमुनातीरे स्थितः वर्तते, रत्नावल्याः गृहं यमुनातटे अस्ति । गृहमुखद्वारम् अभियमुनाम् आसीत् । गृहात् निर्मगमनानन्तरं एव दृश्यते यमुनाप्रवाहः । विपुलधान्यदा मृतिका, बहुसस्यदायिनी विद्यते । वसन्तस्य सुवासी समयः समाप्तः । ऋतोः परिवर्तनात् जनाः रुग्णतां गम्यमानाः अभवन् । परस्परं स्पर्शनेन यथा रुग्णता प्रसरति तथैव रुग्णता यावद् ग्रामं प्रसृताः । हरकोमहोदया रामाबन्धुश्च पूर्णं ग्रामं यावत् सेवाकार्याय न्यमज्जताम्। रात्रौ तारापतिः बहु अक्षीणत् । तं शमयन्ती रत्नावली रोदनमुखी अभवत् । तथापि सः नाशाम्यत् । विलपन् एव सः आसीत् । उषःकाले