रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 7.2k
  • 1
  • 2.6k

रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली-10 जीवने कानिचन कार्याणि क्रीडावदेव आनन्दं ददति । एवं चिन्तयित्वा रत्नावली पठनेन - पाठनेन च क्रीडावदेव एतादृशमेव आनन्दं अनुभवति स्म । शास्त्रिवर्याणां प्रथमः शिष्यः गणपतिः इत्यस्य पठन - पाठनस्य दायित्वं स्वहस्ते ग्रहणेन आनन्दानुभूतीः सा अगृह्णात् । तस्य पिता तस्य विधिवदध्ययनं सम्पादयितुं गमनागमनम् अत्र अकरोत् । कतिपय दिनेषु सा एतस्मिन् चिन्तने निमग्ना जाता यत् किं प्रकारकम् अध्ययनं तया समारब्धव्यम् ? परन्तु सर्वप्रथमा समस्या एषा उपस्थिता यत् शिक्षा दीक्षा इति एतत् कार्यं कथं समारब्धव्यम् ? प्राचीन- तथ्यानाम् आकर्षणम् इति विषये किमपि अप्रशस्तं नास्ति ।