रत्नावली-8 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 7k
  • 1
  • 2.1k

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 8 प्रतिदिनानुसारं रत्नावली अद्यापि समयेन एव उत्थिता । तया स्वदिनचर्या गोस्वामिवदेव अनुचालिता अवर्तत । स्नान - ध्यानादिषु कापि विघ्नबाधा न भवति स्म । वाल्मीकिरामायणपाठः, रामनाम - माला इति एतदेव दैनिक - जीवन - क्रमे समागतम् अविद्यत । यदा कार्यनिवृत्ता भवति स्म तदा तारापतिः उत्थितः भवति स्म । अतः तस्य निर्वहणेन समयः व्यतीतः अवर्तत । धनिया आगता आसीत् । पात्रं गृहीत्वा जलम् आनेतुं सा नदीं गता । गंगेश्वरः प्रतिदिनं प्रस्थानार्थं वदति स्म । परन्तु भगिनी मनसा दुःखिता भवति इति ज्ञात्वा सः पुनः तिष्ठति