रत्नावली-6-संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.5k
  • 1
  • 1.9k

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 6 तारापतेः कारणात् रत्नावल्याः मनः अरमत् । तारापतिः स्फुटतया वदति स्म । गृहे स्थिताः सर्वे जनाः तस्य क्रीडानाम् आनन्दम् अनुभवन्ति स्म । मातामहाः तं गृहीत्वा ग्रामे संचरन्ति स्म । रत्नावल्या स्वसंसारस्य सर्वाः आशाः पुत्रस्य उपरि स्थिराः कृताः । तस्य अस्तित्वं मातुलस्य गृहे नहि स्वगृहे एव शेषं स्थिरं भवितुं शक्नोति। सा अचिन्तयत् - ‘‘अद्य तारापतिः बालकः अस्ति सः श्वः युवकः भविष्यति । भ्रातृजाया च अद्य आत्मीयतां प्रदर्शयति । कः जानाति यत् श्वः कस्य व्यवहारः कथं परिवर्तितः भवेत् ? पुनश्च सम्पूर्णे जीवने मादृशी भगिनी