रत्नावली-4-संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.1k
  • 1
  • 2k

रत्नावली लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी पण्डित - सीताराम चतुर्वेदी धोतीधारकाः पण्डिताः इति नाम्ना प्रसिद्धाः आसन् । जनाः ‘धोतीवालेपण्डित’ इति नाम्ना एव तान् जानन्ति स्म । यतो हि सर्वे पण्डिताः धोतीधारकाः आसन्, परन्तु एते धोती इत्यस्य अर्धभागं परिदधति अर्धभागेन च अङ्गम् आवृण्वन्ति स्म । एते पण्डितमहोदयाः अन्य - पण्डितानाम् अपेक्षया भिन्नां परिधानपद्धतिम् अवलम्बितवन्तः आसन् । भगवतः शङ्करस्य नाम्ना शिष्येभ्यः दक्षिणाग्रहणार्थं प्रस्थानं कुर्वन्ति स्म एते । समीपवर्ति - विंशति - क्रोश - क्षेत्रस्य - ग्रामेषु एतेषां शिष्याः निवसन्ति स्म । काछिजातीयानां पुरोहितरूपेण एते प्रसिद्धाः आसन् । कोऽपि काछिजातीयः स्वकार्यार्थम् एतान् विहाय अन्य -