रत्नावली-2-संस्कृतानुवादकः पं.गुलामदस्तगीरः

  • 6.4k
  • 1
  • 2k

रत्नावली लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 2 अद्यावधिः कति दिवसाः व्यतीताः स्वामिचरणानां निर्गमनान्ते ? तैः मम विषये तु नहि, मुन्ना इति स्वात्मजस्य अपि चिन्ता न कृता । एतादृशः निर्मोही कोऽपि भवति वा ? ते चिन्तयिष्यन्ति अहं तेषां सानिध्ये नास्मि, ततः किं चिन्तनम् ? मुन्ना इति आत्मजः तु अस्ति एव। नारी एका एतादृशी लता अस्ति या वृक्षाधारेण एव आरोहणं करोति, अन्यथा पृथिव्याः उपरि एव लुण्ठनं करोति । वयं नार्यः अनेन प्रकारेण निर्बलाः भूत्वा स्थातुं न शक्नुमः। नारीणां बाल्यकाले, मातृपित्रोः आलम्बः, युवावस्थायां पत्युः आश्रयः, वृद्धावस्थायां च पुत्रस्य आधारः, अनेनैव